SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥३०॥ बुभुजे स्वयं सः। सत्कृत्य सिद्धं व्यसृजत् सतन्त्रं, तं सार्थनाथं च दधौ स्वपावें॥१८७॥ ___इति श्रीतपागच्छाधिराजश्रीविजयदानसूरीश्वरशिध्यमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिविरचितायां चम्पकमालाकथायां द्वितीयः प्रस्तावः ।। अथ तृतीयः प्रस्ताव: अथ सर्वाङ्गसुभगं, सार्थेशं स्निग्धया दृशा। 'प्रतिप्रतीकं नृपतिसुप्रतीको निभालयन् ॥१॥ स्वर्णचम्पकमालावदम्लानां चम्पकस्रजम् । तन्मौलौ वीक्ष्य सञ्जाताश्चर्यः 'पर्यन्वयुक्त तम् ॥ २॥ युग्मम् ॥ माला 'सुमनसामङ्गसङ्गान्म्लायति नः क्षणात् । तवेयं म्लायति न किं, माला सुमनसामिव ? ॥ ३ ॥ स स्माहोश ! मा स्माहो ! मन्यथा इदमन्यथा । शीलप्रभावान्मत्पत्न्या, म्लायत्येषा न जातुचित् ॥ ४ ॥ कथमित्यथ राज्ञोक्तः, सोऽब्रवीत् श्रूयतां विभो ! । अस्त्यङ्गदेशे चम्पाख्या, नगरी श्रीगरीयसी॥५॥ तत्र श्रेष्ठी धन इति, नामाऽऽसीद्धनदोपमः । तस्याहं नन्दनो नाम्ना, धनकेलिरिति प्रभो! ॥६॥ कलाकलापमादाय, शशीव त्यक्तशैशवः । सल्लावण्यामृतः स्वीयकुलाम्भोधिममूमुदम् ॥३०॥ १ प्रतिशरीरावयवम् । २ दिग्गजः । ३ पप्रच्छ। ४ पुष्पाणाम् । ५ देवानाम् ॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy