________________
श्रीजैन कथासंग्रहः
॥२८॥
नृपोऽप्यासीदहो ! साहसभूरसी। स्वदोषं निहते' सन्तं, मां कृत्वाऽलीकवादिनम् ॥ १६६ ॥ संवादयत्यसौ सौवचरित्रैस्तद्विदो' वचः । तथाऽप्याविष्कारयिष्येऽनया जारं सदुक्तिभिः ।। १६७ ।। ध्यात्वेति भूधवोऽवादीदयि त्वं दयिते ! शृणु। दक्षब्रुवे ! ब्रुवे नाहमसत्यमसमञ्जसम् ॥ १६८ ॥ किं तु प्रातर्मया स्वैरमागतेन गतेऽहनि । दृष्टाऽसि सद्यः सम्भोगचिह्ना भोगाऽऽयंभूधना ।। १६९ ।। सम्भोगश्च न भोक्तारमन्तरेणोपपद्यते । तेनार्थापत्तिनिर्णीतमर्थं कथमपहृषे ? ।। १७० ।। प्रादुष्कुरु स्वोपपर्ति, मुधा मा वञ्चयस्व माम् । मा भैषीस्त्वां च तं प्राह, न हनिष्यामि सर्वथा ।। १७१ ।। त्वया ह्याविष्कृते तस्मिन्, मत्तो नैवोभयोर्भयम् । विद्यादिभिर्मया त्वाविष्कृते तद्भावि मृत्युकृत् ।। १७२ ।। श्रुत्वेति भीतिवात्याऽस्ताऽऽगाढशाठ्याप्रसंहतिः । द्यौरिवेषत्प्रसन्नेति सा वचोभगणं दधौ ।। १७३ ।। सर्वसह ! सहस्वामुं, मन्तुमप्युग्रमावयोः । मा भूच्चलाचलागीस्ते, सत्यसन्धाऽचलाचला * ॥ ९७४ ॥ इत्युदित्वा तया क्लृप्तात्सङ्केतात्तूर्णमागतः । चुक्षोभ सार्थपो भूपं, वीक्ष्यागस्त्यमिवोदधिः ॥ १७५ ॥ शीतज्वरार्त्तमिव
१ अपलपति । २ स्त्रीचरित्रं दुर्ज्ञेयमिति । ३ अर्थापत्तिः प्रमाणविशेषः । यथा रोगादिरहितो देवदत्तो दिवाऽभुञ्जानोऽपि स्तीति केनाप्युक्तम् । तदाऽन्यः प्राह, दिवाऽभुञ्जानस्य पीनत्वं रात्रिभोजनं विना नोपपद्यत इत्यसौ निशि भुजे इत्यादि रात्रिभोजननिर्णायकमथापत्तिप्रमाणम् ४३ अचला भूमिः, यद्वाऽचलाः पर्वतास्तद्वदचला।
श्रीचम्पकमाला
कथा ।
॥२८॥