________________
किच
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥२७॥
"
.
.
रक्ष्यमाणा षडक्षीणममुनाऽक्षीण हद्धवा । त्वं ज्ञाताऽसि यथा तद्वत्, सोऽपि ज्ञातोऽस्त्येये ! मया ॥१५५ ॥ भियं ह्रियं च तद्दूरीकृत्योरीकृत्य मद्गिरम् । कान्तमाविष्कुरु स्वान्त, इव न्यस्तं समुद्रके ॥१५६ ॥ इति राजाऽऽज्ञया वीतभयाकृष्य समुद्गकात् । तं तृतीयाऽऽसने न्यास्थत्सा विद्याकृतगौरवम् ॥१५७ ॥ ततो राजा जगौ राजी, योगिनीव त्वमप्यहो!। मद्वाक्यं मानयाभीष्टमानयाशु निजं शुभे! ॥१५८ ॥ साऽऽह साहसभृन्नाहमित्वरीवाऽन्यगत्वरी। वेश्यादेश्या च नास्मीश! तदेतत्कथ्यते कथम् ? ॥ १५९ ॥ प्राणाऽऽधारतया प्राणप्रियो नाथ ! त्वमेव मे । रक्षणाद्व्यापदापत्ती, शरणं च त्वमेव म।।१६०॥ देव ! त्वमेव मे देवमणिः कामितपुरणात् । पोषकत्वाच्च भर्ता त्वं, जीवनाज्जीवितं च मे ॥ १६१॥ तदद्य यावन्नवास्ति, त्वां विनाऽन्यः प्रियो मम । आमृतेस्त्वामृते नान्यं, करिष्यामि च वल्लभम् ॥१६२॥ सर्वाभीष्टार्थदातारं, हित्वा त्वां स्वर्दुमोपमम् । करीरकल्पमपरं, सेवे स्यां करभी यदि॥१६३ ॥ कुलाङ्गजा कुलवधूर्नान्याप्यान्यं निषेवते । किं पुनस्त्वत्कुलवधूरहं सत्कुलसम्भवा ? ॥ १६४ ।। तद्दीर्घदर्शिनां श्रेष्ठ !, सद्विपश्चिदपश्चिम !। किमेतदविमृश्योक्तमसमञ्जसमञ्जसा ॥ १६५ ॥ तनिशम्य १ अत्यन्तकामिनेत्यर्थः । २ त्वां विना।
.
.
.
॥२७॥