________________
श्रीजैन
श्रीयम्पकमाला
कथा।
कथासंग्रहः
॥२६॥
निःश्रेणिकाप्रयोगेणाऽऽरूढं तत्र स योगिनाम् । कृतस्नानादिकर्माणमासयत् प्रथमाऽऽसने ॥ १४५॥ क्षुधितायां स्वकान्तायां युष्माभिर्भोक्ष्यते कथम् ?। पङ्क्तिभेदो महापापं, मयाऽपि क्रियते कथम् ?॥ १४६ ॥ तदाविष्कृत्य सान्धार्याः, स्थाप्यतामन्यविष्टरे। 'तद्दर्शिनो 'विधेयस्य, विधेया वञ्चना न मे ॥१४७॥ राज्ञेति साग्रहं प्रोक्तो, विममर्शेति योगवित् । यांनैक्षत जगच्चक्षुः, कथमैक्षत तामसौ ?॥१४८॥ निशि पर्यटता यद्वा, दृष्टा साऽनेन भाविनी । मर्मज्ञस्यास्य नाथस्य, नाऽथ स्याद्वञ्चना हिता ॥ १४९ ॥ ध्यात्वेत्याविष्कृत्य स द्राग, विद्यया प्रौढतां गताम् । तां द्वितीयाऽऽसने न्यास्थत्ततो राजेति तां जगौ ॥१५० ॥ प्रादुष्कुरु प्रियं भद्रे !, स्वान्धारीस्थसमुद्रकात् । भोक्तुं युक्तं न शिष्टानां त्यक्त्वाऽभीष्टं क्षुधाऽऽतुरम् ॥ १५१॥ भर्तुर्भिया ह्रिया च त्वं, मा कार्मिद्वचो मृषा। मदाज्ञाकारिकायास्ते, कर्ता होष न विप्रियम् ॥१५२ ॥ यथाऽयं त्वां दधानोऽदाद्योगित्वाय जलाञ्जलिम् । तं बिभ्रती सतीत्वाय, तथा त्वमपि पण्डिते!॥ १५३ ॥ तदेष तुल्यदोषत्वान्न त्वां दूषयितुं क्षमः । तुल्यदोषैः समं युक्तिर्निषिद्धा तार्किकैरपि ॥ १५४ ॥ तथा च तद्वचः - यत्रोभयोः समो दोषः, "परिहारोऽपि वा समः । नैकस्तत्र नियोक्तव्यस्तादृगर्थविचारणे॥१॥ १भवत्कान्तादर्शिनः । २ वचने स्थितस्य । ३ छनं प्रियम् । ४ परिहारः समाधानम् ।।
॥२६॥