SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥२५॥ । । सात्त्विकी तात्त्विकी साऽपि, भीरुरित्युच्यते कथम् ? ॥ १३३ ॥ यद्वा त्रैलोक्यजैत्रस्य, साहाय्यात्पुष्पधन्वनः । नैसर्गिकीमपि जहौ, भीरुतामबलाऽप्यसौ ॥ १३४ ॥ सुप्तो मृतोपम इति, लोकोक्त्या निर्भयाऽथवा ॥ सुप्तं पति मृतमिव, ज्ञात्वाऽसौ सेवते परम् ॥ १३५॥ नरोऽपि निशि सुप्तेऽस्मिन्, भाव्येष स्वीकृतोऽनया। विद्ययाऽयं वशीकृत्य, लघुकृत्य दधात्यसौ ॥ १३६ ॥ यस्याः प्रयोगादन्यस्य, लाघवं स्याद्गुरोरपि । विद्याऽपि भात्यविद्येव, सानयोः 'सन्नयोनयोः॥ १३७ ॥ यद्वा विस्तारसङ्कोची, करोत्यङ्गिकजेषु या। सा विद्याऽपि न सामान्या, मान्या भानुप्रभेव मे ॥ १३८ ॥ दुश्चारिणीत्वमप्यस्याः संवृतं विद्ययाऽनया। न ज्ञायते यथा तस्या, मत्पल्या माययाऽऽवृतम् ॥१३९॥ दौःशील्यमस्यास्तस्याश्च, स्वसंवेद्यमियच्चिरम् । करोमि परसंवेद्यमद्य वैद्य इवामयम् ॥ १४०॥ मादृशामन्यदोषाविर्भावो यद्यपिनोचितः । तथाऽपिनासौ दोषाय, धूर्तदम्भप्रकाशने॥१४१॥ध्यात्वेति भूधवो गत्वा, गेहंस सुखमस्वपीत् । निशान्ते च समुत्थाय, निशान्तात्तं मठं ययौ॥१४२॥ अत्याग्रहेण तं सिद्धं, भोजनाय निमन्त्र्य सः। स्तम्भहीनो महीनोऽगात्तदेकस्तम्भमन्दिरम् ॥ १४३ ॥ कारयित्वा रसवती, मर्त्यषद्काशनोचिताम् । पञ्चासनानि स्थालादिसनाथानि न्यवेशयत् ॥ १४४ ॥ १ सता शोभनेन नयेन न्यायेन ऊनौ सन्नयोनौ तयोः, सन्यायरहितयोरित्यर्थः ॥ २ स्तम्भो जावं तेन हीनः । ३ राजा। ॥२५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy