________________
.
.
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
.
. .
.
.
.
.
.
. ....
.
.
.
.
॥२४॥
जिज्ञासुर्जारमार्जार, तं स्त्रीप्रेमपयोहरम्॥१२१॥ ततश्छन्नं प्रमन् रात्रावेष वेषान्तरं दधत् । अपश्यद्योगिनं कञ्चिद्धरिविद्याबलाञ्चितम् ॥ १२२ ॥ कन्धया श्रथया मूर्तमाययेव वृताकम् । गृहन्तं चारुपक्वानपत्रपुष्पफलादिकम् ॥ १३ ॥ तं वीक्ष्य जाताऽऽशोऽसौ, तदज्ञातोऽनुसञ्चरन् । तन्मठं प्राप्य कमठ इवासीनिभृताङ्गकः ॥ १२४ ॥ युग्मम् ॥ यावत्तद्वृत्तवीक्षार्थ, तत्रैकाग्रोऽभवन्नृपः । तावदन्धारिकामध्यादाविश्चक्रे स बालिकाम् ॥ १२५॥ विद्यालघूकृतां विद्यान्तरेण तरुणीकृताम् । स तां भोजितपक्वान्नताम्बूलां बुभुजे स्वयम् ॥ १२६ ॥ रमयित्वा चिरं सुप्ते, तस्मिन् योगिनि योगिनी। साऽपि स्वान्धारिकामध्यात्, प्रादुश्चक्रे समुद्रकम् ॥ १२७ ॥ भृङ्गं भानुप्रभेवाजानरं लघुतरं ततः । साऽऽविश्चक्रे विद्यया तं, कृत्वा प्रौढमरीरमत् ॥ १२८ ॥ कृतार्था तु लघूकृत्य, विद्यया तं समुद्के । न्यधात् करण्डके नागं, संवेल्लयेवाहितुण्डिकी ॥१२९ ॥ क्षिप्त्वान्धार्यामुपपतिसमुद्रं सोपपत्यगात् । तद्वीक्ष्य कौतुकं भूमानध्यासीदिति विस्मितः ॥ १३० ॥ गौरी गिरीश इव यामवियुक्तां सदात्मना। अन्याङ्गिसङ्गत्यागार्थ, लघूकृत्य दधात्ययम् ॥१३१ ॥ साऽप्यन्यपुंसा रमते, 'मते चेच्छया स्वया। सतीत्वन्यासमन्यासु, तत्कः कुर्यात्सुधीरपि?॥१३२॥ भुङ्क्ते स्थिताऽप्युपपति', याऽभयोपपतिं सदा १ कच्छप इव ।। २ उपपति पतिसमीपम् । ३ अप्रतिबद्धा प्रवर्तते । ४ पतिसमीपे।
. .
. .....
. .
.
.
.
.
.
. ...
.
॥२४॥