SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥२३॥ अनावृतश्लथीभूतकबरी शबरीमिव । विच्छिन्न पत्रलतिका, कपिक्रीडावनीमिव ॥ १११ ॥ उत्फुल्लगल्लसंलग्रताम्बूलरससल्लवाम् । रतायासोद्भवन्निद्रासचनेत्रपल्लवाम् ॥ ११२ ॥ गतकृत्रिमरागत्वाद्विरलारुणताजिताम् । रदक्षतपदैरायमाबिभ्राणां रदच्छदम् ॥ ११३ ॥ तां वीक्ष्य क्षितिपो दम्यौ, हा धाम्नीहाऽपि रक्षिता। अन्यासक्ताऽभवदसौ, धिग् रामाः कामविह्वलाः ॥ ११४ ॥ चतुर्भिःकलापकम्॥ एतत्कामितकल्पद्रौ, मय्यासक्तेऽपि, सत्यसौ सेवतेऽन्यं नरं स्त्रीणां, दुष्पूरत्वमहो !। महत् ॥ ११५ ॥ सती स्याच्चेदसौ तत्स्यादियं देहस्थितिः कथम् ? । स्यादेकस्याश्च ताम्बूलोद्गालादिकमियत्कथम् ? ॥ ११६ ॥ केनापि रसिकेनासौ, तन्नूनं रमतेऽन्वहम् । अहं तु मोहाव्या मोहाज्जानाम्येनां सतीमिति ॥ ११७ ॥ भियं ममाप्यनादृत्य, यो विशत्यत्र सोऽप्यहो!। मद्वत्साहसिको भावी, सिद्धो विद्याञ्जनाऽऽदिना ॥११८॥ स च जारनरो नूनमिहाऽऽसन्नो भविष्यति । सद्यस्कभोगलिङ्गायदेहाऽसौ दृश्यते यतः ॥ ११९ ॥ ध्यायन्निति स निभ्यायन्', भूनेता तत्र सर्वतः । काष्ठे कीट मिवाद्राक्षीत्, स्तम्भमध्यागतं न तम् ॥१२०॥ सोऽधागादृहमज्ञातो, निद्राघूर्णितया तया। १ राज्ञीपक्षे विच्छिन्ना पत्रलता पत्रवल्ली यस्याः सा तथा । क्रीडावनीपझे विशेषेण न्छिनपत्रा लता वल्यो यस्यां सा तथा ॥२ कृत्रिमरागस्ताम्बूलालक्तकादिः । ३ विपरीतवितात् । ४ अवलोकयन् । ५ धुणमिव । ६ स राजा। ॥२३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy