________________
श्रीजेन कथासंग्रहः
॥२२॥
तत्सङ्ग' तर्षोत्कर्षोत्था, दुःखाद्वर्षायितं दिनम् । यूथभ्रष्टा कुरङ्गीव, कथञ्चित्साऽत्यवाहयत् ॥ १०० ॥ रात्रौ भूयोऽपि सार्थेश, प्रेम्णाऽऽकृष्टस्तदन्तिके । प्राग्वद्ययौ वृष इवाऽऽकृष्टो शस्यधराङ्गिना ।। १०१ ।। स्वां वशामिव निरःशङ्कं रमयित्वा चिरं स ताम् । निशाशेषेऽगमत्सौधमेवं चक्रे मुहुर्मुहुः ।। १०२ ।। उप्तो नेत्राऽऽरामिकाभ्यां संसिक्तो वचनाम्बुदैः । तयोः प्रेमद्रुमः पुष्टिं दधौ सम्भोगदोहदैः ।। १०३ ।। तौ बाढं निबिडस्नेहौ, निशाचन्द्रमसाविव । अन्योन्यविरहेऽगातां, विच्छायत्वं क्षणादपि ॥ १०४ ॥ ततो राज्ञ्या तया प्रोक्तस्तत्सौधस्तम्भमूलगाम् । सुरङ्गां स्वगृहान्मयैः, स विश्वस्तैरचीकरत् ।। १०५ ।। स्तम्भभित्तिकृतद्वाराकृष्यतन्मध्यपूरणम् । तस्मिन्मिनारक इव, सोपानान्यभितो न्यधात् ।। १०६ ।। विधाप्य स्तम्भमूलस्थद्वारान्ते शयनाऽऽस्पदम् । स्तम्भाग्रेऽकारयद्रेहमध्ये द्वारमगोचरम् ।। १०७ ।। शिल्पिभिः सर्वमप्येतद्धनदानवशीकृतैः । छन्नं व्यधापयत् क्षिप्रं वित्ताद्वा किं न जायते ? ॥ १०८ ॥ स्तम्बे भृङ्ग इव स्तम्भे, वसंस्तत्र सपद्मिनीं । राजहंसप्रियां सग्रसरो गत्वा बभाज ताम् ।। १०९ ॥ नृपस्तत्रान्यदाऽऽयातः, प्रातः काले ददर्श ताम् । चिन्हैः सद्यस्कसम्भोगसूचकैरुपलक्षिताम् ।। ११० ॥
१ पिपासा ।।
श्रीचम्पकमाला कथा ।
॥२२॥