________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥२०॥
कुरु॥७९॥स्माहेभ्योऽद्रिप्रवाहेभ्योऽप्यस्थेम'प्रेम योषिताम् ।ता हिरक्ता विरक्ताच, जायन्ते क्षणमात्रत: ॥८०॥ रक्ता च हरति द्रव्यं, या विरक्ता स्वसूनपि । तदर्थ देहसन्देहकार्यकार्य करोति कः?॥८१॥ सोवाचायुक्तया वाचा, भवतः कृतमेतया । नार्यों नाऽऽर्या न यत्सर्वा, न च सर्वे शुभा नराः ॥ ८२॥ दृश्यन्ते वज्रवत्केऽपि, पुरुषाः परुषाऽऽशयाः । विनाऽपि विप्रियं प्राणप्रियाप्राणापहारिणः ॥ ८३ ॥ स्त्रियोऽपि काश्चिद्वीक्ष्यन्ते, स्वकान्तविरहासहाः । जुह्वत्यः स्वं क्षणाज्ज्वालाजि ऽनुगमनोद्यताः॥४४॥ नार्योऽस्नेहा न तत्सर्वाः, सस्नेहा न नराः समे। महत् समानजातिष्वप्यन्तरं दृश्यते मिथः ॥ ८५॥ उक्तं हि-वाजिवारणलोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम्॥१॥हित्वा विमर्श तत्सर्व, प्रार्थनां मे कृतार्थय। दीनां स्वीकुरु मां कान्त !, त्वदेकायत्तजीविताम्॥८६॥ तस्या वाणी स वाणिन्याः, श्रुत्वाऽन्तर्वाणिरण्यमूम् । तस्यां रक्तोऽभवत्को वा, व्यक्तोऽप्याभिन भिद्यते?॥८७॥ ततः स तां सतां मार्ग, विहायाङ्के न्यवीविशत् । गुणान् ज्ञानविवेकादीनुद्वास्य हृदयालयात् ॥८८ ॥ यतः - जीवव्योम्नि ज्ञानभानुस्तावदुद्द्योततेतमाम् । कान्ता कादम्बिनी यावदागाप्रैः स्थगयेन्न तम् ॥१॥ विवेकदीपो हृद्रेहे तावदेव प्रभासते। यावत् प्रबाधते श्यामाकटाक्षपवनो न तम् ॥२॥ तावत् क्रीडन्ति १ अस्थिरः ॥२ बहुशाखवाक्याभिज्ञोऽपि।
॥२०॥