SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्रीचम्पकमाला कथा। ॥१९॥ वनितां प्रीत्या, याचमानां पुनः पुनः । भजमानां न भुजीत, तं वै चण्डालदर्शनम् ॥ ६९ ॥ अपवादवचांस्येवं, स्मृत्यादीनां विदन्नपि । भोग्या नान्यस्त्रीति वाचा, किं मां वञ्जयते भवान् ॥७॥ सेहे प्रेत्यभयाहुःखं तदोग्रं त्वद्वियोगजम् । दुःखादस्मान्महद्वीक्षे, साक्षात प्रेत्य जंयदा॥१॥सविद्य ! विद्यते तावत्, परलोकस्य संशयः । तत्र दुःखं महदिति, शुद्धधी: श्रद्दधीत कः ? ॥७२॥ संशये परलोकस्य, तदुःखस्यापि संशयः । सन्दिग्धदुःखभीतेस्तत्कस्त्यजेदैहिकं सुखम् ॥७३॥ ऐहिकी राजभीर्योक्ता, सा तु तुल्यावयोर्द्वयोः । ज्ञातास्महुर्नयो होष, हन्यादावामुभावपि ॥ ४ ॥ किंतु मय्यल्परागत्वात्, त्वं तां वेदयसे हृदि। अहं त्वयि त्वयि प्राज्यरागत्वात्तां न वेदये।७५॥ सगोचरमपि स्नेहं, प्राणत्राणाय भीरुकः । बह्माच्छूरस्तु सत्प्रीतिकृते प्राणांस्तृणीयति ॥ ७६ ॥ उक्तं च केनचित् - भवत्कृते खञ्जनमञ्जुलाक्षि ! शिरो मदीयं यदि याति यातु । दशाननेनापि दशाननानि नीतानि नाशं जनकात्मजार्थम् ॥१॥ भवान्तरेऽपि सुप्रापाः, प्राणा: स्नेहः पुनः सताम् । दुष्प्रापः प्रेत्य तत्प्राणांखातुं सत्प्रेम कस्त्यजेत् ?॥७॥राजा तु जातु जानीयानेदं ज्ञात्वाऽपि वा सहेत् । स्मरस्तु'घस्मरोऽचैव, मां हताशां हनिष्यति॥७८॥ तद्विमुच वणिग्जातिसुलभंसाध्वसं कृतिन् ! मामामर्दय महुःखं, मर्दयान्तर्दयां १ तदुःखम् । २ परलोकभवम् । ३ भक्षणशीलः । ४ भयम्। । ॥१९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy