SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥१८॥ । तां प्रत्यक्षां पार्थिवोत्थामैहिकी जरवे कथम् ? ॥६०॥ दण्ड्यते स्वागनाशाद्यैरन्योऽप्यन्यायकृनृपः । यत्पुनस्तद्वशासक्तो, दण्डाते तत्र का कथा ?॥६१॥ पुन्नागा नागवन्नागः', सहन्ते सुहृदामपि । भुजङ्गे भूभुजङ्गे च, क्षान्तिः, प्रीतिश्च दुर्लभा॥ ६२॥ नाकस्मान्मृत्युदं तस्मात्, त्वत्सङ्गं कर्तुमुत्सहे। किं 'पाकोऽपि हि किम्पाकमनीयात्तद्विपाकवित् ? ॥ ६३ ॥ तन्मामयि गृहान् गन्तुं, कृपां कृत्वा समादिश। त्वत्प्रेमपाशमुक्तोऽहं जीवामि ससुखं यथा ॥ ६४॥ यदुक्तम् - तावदेव सुखं यावत्र कोऽपि क्रियते प्रियः । प्रिये तु विहिते सद्यो, दुःखेष्वात्मा नियोज्यते ॥१॥साऽऽचख्यो यदि मे स्वास्थ्यं, कर्तुमागास्तदा तु माम्। रमय स्फारदुर्वारमारापस्मारविह्वलाम्॥६५॥स्वस्थीभावो हि भावत्कभोगाभोगं विना नमे। ऋतेऽम्बु तृषितस्येव, बुभुक्षोर्वा विनाशनम् ॥६६॥स्वास्थ्ये सत्येव नीत्यादिवाक्यमासेव्यते बुधैः । तदमावे त्वपि प्रा निषिद्धमपि सेव्यते ॥६७॥ यदुक्तम् - निषिद्धमप्यावरणीयमापदि, क्रिया सती नावति यत्र सर्वधा । घनाम्बुना राजपधेऽतिपिच्छिले, कचिदुधैरप्यपधेन गम्बते॥१॥ तथास्वस्थावस्थे शरीरे हि, निषिद्ध सद्भिरौषधम् । विपर्यये तु तैरेव तदप्याट्रियते युवम् ॥१॥ सर्वत्रोत्सर्गापवादौ दृश्येते वाङ्येष्वपि । प्रस्तुतार्थेऽपि सार्थेशापवादवचनं शृणु ॥ ६८ ॥ कामाता १ भौतिम् । २ अपरायम् । ३ शिशुः। ४"अपि" इत्यपि॥ ॥१८॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy