________________
श्रीजैन कथासंग्रहः
श्रीचम्पक्रमाला
कथा।
॥१६॥
नासाध्यं कष्टसाध्यं वा, ममेदं वृद्धसेविनः ॥ ३६ ॥ वृद्धेभ्यो हि श्रुतं गोधा, चन्दनाऽऽह्वा महाबला। याति गेहे दुरारोहेऽप्यारोहाय सहायताम् ॥ ३७॥ कुतोऽप्यानीय तां तस्मान्नेष्यामि त्वां तदन्तिकम् । दीनं तद्विरहान्मीनमिव नीरवियोगतः ॥ ३८ ॥ त्वदीयहादसौहार्दप्रणुन्नोऽकार्यमप्यदः । करिष्येऽमिरिवोदनवायुनुन्नो वनक्षयम् ॥ ३९ ॥ तन्मा कृथा वृथा चिन्तां, मतिमोहविधायिनीम् । चितातोऽप्यधिकांजीवज्जनज्वालनकर्मणा ॥४०॥स्वस्थीकृत्येति तं क्वापि, ग्रामे गत्वा स तस्करात् । प्राक् संस्तुताच्चन्दनाहगोधां तच्छिक्षितां ललौ॥४१॥ तामादाय घटे क्षिप्तां सार्थेशेन समन्वितः । हस्तमात्रान्तराबद्धग्रन्थिना रश्मिना युतः ॥ ४२ ॥ तस्यैकस्तम्भसौधस्य, सन्निधौ सोऽगमन्निशि । घटादाकृष्य गोधां तत्कव्यां रज्जुंबबन्ध च ॥४३॥ युग्मम् ॥ वंशमारोप्य सा तेनोदस्ता' सीत्कारपूर्वकम् । गवाक्षे व्यलगगाढं, तत्रोत्कीर्णेव शिल्पिभिः ॥ ४४ ॥ सार्थेशोऽथ सुहद्वाचा, हस्तयुग्मात्तरज्जुकः । पादाङ्गुष्ठाङ्गुलीमध्याक्रान्ततद्गन्थिसन्ततिः॥४५॥ तत्रारोहन दुरारोहेऽप्यभीकस्तद्दिदृक्षया। प्राप वातायनं लङ्ग, इव वंशाग्रमाशया॥४६॥ युग्मम् ॥ तद्वयस्यस्तु तां गोधां, फूत्कारेण समागताम् । घटे क्षिप्त्वा निलीयास्थात्, कापि तत्सौधसन्निधौ॥४७॥ सार्थनाथ: पुनीपोद्योतादेकाकिनों स ताम् । विज्ञाय १ उत्क्षिप्ता । २ एकस्तम्भसौधे॥
॥१६॥