SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥१५॥ ग्लोकद्वयाहितम्। पत्रं ददर्श तन्मूर्तमिव मन्मथशासनम् ॥२४॥ तत्तन्मानसकोशस्थरागशेवधिबीजकम् । प्रवाच्य भृशमुत्कण्ठां, भेजे तत्सङ्गमाय सः॥२५॥ दध्यौ चास्या अहो! रूपमहो! लावण्यमुल्बणम् । अहो! दाक्ष्यमहो! स्नेहोऽन्योक्तिकौशलमप्यहो!॥ २६॥ दर्शनस्पर्शरागाः स्युरीदृशां हि मृगीदृशाम् । यथोत्तरं दुरापास्तन्नोपेक्षास्या ममोचिता ॥ २७ ॥ उपेक्षिता क्षिणाऽऽशाऽसौ, वशा कामदशावशात् । नियेत चेत्तदा स्यान्मे, स्त्रीहत्यापातकं महत् ॥ २८॥ तदुपायेन केनापि, मया गन्तव्यमेकशः । तस्याः समीपे पश्चात्तु, करिष्ये समयोचितम् ॥२९॥ध्यायन्निति गतः सौधं, मित्रायाऽसौ न्यवेदयत् । तां वार्ता परमप्रेमनिधयेऽम्बुधये घियाम् ॥ ३० ॥ बूचे च मित्रेदं कार्य, दुःसाधं प्रतिभाति मे । यदेकस्तम्भसौधस्थाभिसर्तव्या नृपाङ्गना ॥ ३१॥ न यामि चेत्तदा कामविवशा म्रियतेऽपि सा। तत्किं करोम्यहं पश्यन्नितो व्याघ्रमितस्तटीम् ॥ ३२ ॥ यद्वा त्वदीयसाहाय्याद्भाव्यसम्भाव्यमप्यदः । स्थपतेरुद्यमाद्धेजे, राट्सुतां कौलिको न किम् ?॥ ३३ ॥ रजोऽपि वायुसाहाय्यादारोहति गिरेः शिरः । असहायो मणिरपि, न याति क्रममप्यहो ! ॥ ३४ ॥ तन्मन्ये कार्यमेतन्मे, साहाय्याद्धीमतस्तव । भावीत्याकर्ण्य स्वान्तत हुःखः सोऽप्यदोऽवदत् ॥ ३५॥ सखे! सखेदं मा मेदं, वादीर्वादीव हीलितः। १ मित्रदुःखः। ॥१५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy