________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
.
.
॥१४॥
तदेकाग्रमनास्तस्मिन् गतेऽपि हि । वीक्षा पन्नतया वीक्षामास तन्मार्गमेव सा॥१२॥क्षणान्तरे च सा सावधाना दध्याविदं हृदि। ममास्य संयोगमृते, मृतेर्योगोऽपि सम्भवेत् ॥१३॥ सङ्गोपायं तदस्य द्राक्, कुर्वे कञ्चन जीवितुम् । क्रियते जीवनोपाये, विलम्बो नालसैरपि ॥ १४ ॥ ध्यात्वेति धनिनस्तस्य, स्वाशयाऽऽवेदनऽऽशया । गताऽश्लोकभया' ग्लोकयुगं पत्रे लिलेख सा ॥ १५ ॥ तच्चैवम्-नाथ ! प्रदोषसंरुद्धसञ्चारा पद्यसद्मगा। भृङ्गी समीहते चिन्ताक्रान्ता मित्र ! तवागमम् ॥ १६ ॥ तदुपेक्षां भवान् भास्वन्, कर्ता चेत्तदभाग्यत: । हताऽऽशाऽन्तकसंयोगं, तदा सा लप्स्यते ध्रुवम् ॥ १७ ॥ इति प्लोकद्वयीपत्रं क्षिप्त्वा सत्पत्रबीटके । सा प्रत्यागच्छत्तस्तस्योत्सङ्गे दक्षाऽक्षिपद्रुतम् ॥ १८ ॥ तद्वीक्ष्य गगनाऽऽयातं, दत्तं देवतयेव सः । ऊद्ध्वं पश्यन्नपश्यत्तां, गवाक्षस्थां मृगेक्षणाम् ॥ १९ ॥ तां च पश्यन्निर्निमेषमेष मेष इवोन्मदः । म बिभाय न जिह्वाय, भीहियो कनु कामिनाम् ?॥२०॥ दथ्यौ च हृदि मामेषा, पश्यन्ती स्निग्धया दृशा। ज्ञापयत्यान्तरं रागं, न रागैवमीक्षते ॥२१॥ नागवल्लीदलानां मे, बीटकं रागमालिनाम् । सत्यवारमिव प्रेम्णस्तत एवेयमार्पयत् ॥ २२ ॥ तद्वीक्षे बीटकं सम्यग्, रागिण्याऽर्पितमेतया। सामान्यमपि मान्यं हि, वस्तु रागिजनार्पितम् ॥२३॥ध्यात्वेति बीटकं वीक्षमाणः
॥१४॥
१ विलक्षतया। २ अपयशभयम् ।