________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥१३॥
. अथ द्वितीय प्रस्तावः - अथागात्तत्र गगनधूलिनामाऽपरेद्यवि । सार्थनाथोऽर्थरूपाभ्यां, श्रीदश्रीनन्दनौ जयन् ॥१॥ सोऽरजयच्छस्तवस्तुसम्भृतैः प्राभृतैर्नुपम् । सोऽपि तुष्टोऽमुचच्छुल्कं, तत्सार्थस्यार्थशेवधेः ॥ २॥ सदावासं च वासार्थ, सार्थपायार्पयन्नृपः । पण्यैः पुण्यैरगण्यैः स्वैर्भूत्वा सोऽप्यध्युवास तम् ॥ ३॥ याप्ययानगतं तं च, स्वगृहासन्नवर्त्मना । यान्तं भूपसभेऽन्येचुरद्राक्षीत् सा नृपाङ्गना ॥ ४॥ दध्यौ चैवमहो ! एषः, पुमान् सम्मानसङ्गतः । उल्लासयति मां नेत्राध्वना मन्मानसं गतः ॥ ५॥ वर्णः सकर्णवोऽस्य सौभाग्यं भुवनोत्तरम् । रूपमप्रतिरूपं च, न स्यात् कस्याद्भुतावहम् ॥६॥ अहं स्वे लोचने धन्ये, मन्ये याभ्यामयं पुमान् । लावण्यजलधिदृष्टोऽदृष्टोज्झित सुदुर्लभः ॥ ७ ॥ दृष्टोऽसौ सुभगोत्तंसो, न यया तज्जनिर्मुधा । दृष्टोऽपि 'परिरब्धोऽयं न यया तज्जनिर्मुधा॥८॥ विधे! विधेहि पक्षौ मे, निधेहि करुणां मयि । यथोड्डीयाङ्ककमलमलकुर्वेऽस्य मञ्जुलम् ॥९॥ चेतः ! प्रसीद त्वं बाह्वोर्देहि विद्यां प्रसारिणीम्। अमू यथा प्रसार्यामुं, मनोऽभीष्टं परिष्वजे॥१०॥ अद्यास्य दर्शनान्नेत्रे, यथा सफलतां गते । तथाऽस्य स्पर्शनाद्भावि, साफल्यं वपुषः कदा ? ॥ ११ ॥ ध्यायन्तीति १ आलिङ्गितः । २ अमू बाहू । ३ आलिङ्गामि ।
॥१३॥