________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला कथा।
॥१२॥
कुर्वे कालोचितं स्वालोचितं त्वग्रे विधास्यते॥१२०॥ दम्माम्बुवापी साऽपीति, श्रयन्ती प्रश्रयं बहिः। मनोरञ्जयितुं राजश्चारुचाटून्यनाटयत् ॥ १२१ ॥ मुग्धभावं च सा दुग्धमुखीवादर्शयत्तथा। सोऽप्रगल्भां यथाऽमंस्त, तां विदग्धां विदन्नपि ॥ १२२ ॥ आनुकूल्यरसः स्त्रीणामिति चेतसि जानती । भूपचित्तानुवर्तित्वं, प्रपेदेऽप्रेरिताऽपि सा॥१२३ ॥ अतुल्येनानुकूल्येन, तस्या राजाऽपि रञ्जितः। तां बभाजानुकूल्यं हि निर्मन्त्रं विश्वकार्मणम् ॥१२४ ॥ साऽन्यदोचे नृपं स्वामिन् ! गमयामि कथं दिनम् ? निर्व्यापारा गात्रमात्रपरीवाराऽहमन्वहम् ॥ १२५ ॥ दिनैस्त्रिचतुरैरत्र, त्वं यत्राभ्येषि तद्दिनम् । सा क्षपा च क्षणायेते, वर्षायेते परे तु ते ॥ १२६ ॥ ततो लेखनसामग्री, मषीमुख्यां प्रदेहि मे। व्याक्षेपेण यथाऽनेन, कालक्षेपं करोम्यहम्॥१२७ ॥ तत्प्रार्थित: पार्थिवोऽपि, सदयः समपादयत् । पिप्रिये साऽपि प्रियेऽन्त रागा बाह्यभक्तिभाक् ॥ १२८ ॥ इत्थं नरेन्द्रो विविधै-रुपायैरावर्जयत्तां दयितां तदिष्टैः। वशाऽपि साऽपिप्रिणदिङ्गितज्ञा, बाह्योपचारैर्वसुधाधवं तम्॥१२९॥
॥ इति श्रीतपागच्यधिराजश्रीविजयदानसूरीश्वरशिष्यमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिविरचितायां चम्पकमालाकथायां प्रथमः प्रस्तावः ।
॥१
॥