SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥। ११॥ इत्युदित्वा गृहं गत्वा, 'परिष्कृत्य निजाङ्गजाम् । पृथ्वीपतिमुपानिन्ये, हरिं पद्मामिवोदधिः ।। १०९ ।। तदैव दैवज्ञगिरा, नृपतिः परिणीय ताम् । इष्टिकाजातजातैकस्तम्भस्थे धामनि न्यधात् ॥ ११० ॥ स्तम्भे तस्मिन् गृहाssधारे, सुधालेपातिकोमले । कीटिका अपि नारोढुमशकन् किं पुनः परः ? ।। १११ ।। स्वयं त्वग्निकवेतालबलात्तत्र ययौ नृपः । 'कृशाश्वीवाऽकृशां' रागदशामभिनयन्त्रयम् ॥ ११२ ॥ कल्पवृक्ष इवाभीष्टामनाच्छादनादिकाम् । ददौ स तस्यै सामग्री, समग्रामग्रणीः सताम् ।। ११३ ।। दध्यौ सा तु महीशोऽयं, विना हेतुं रिपुर्मम । यन्मामिह गृहेऽक्षैप्सीत्, सारिकामिव पञ्जरे ॥ ११४ ॥ अथ चेन्मामिह क्षिप्त्वा चिकीर्षति सतीमसौ । तदाऽन्या अपि किं स्वस्त्रीर्धाम्नि न क्षिपतीदृशे ? ।। ११५ ।। यद्वा सख्या समं वार्ता, या मया निशि निर्मिता । तामश्रौषीदसौ नूनं पर्यटन्निष्टचर्यया ।। ११६ ।। तदा मदाश्रितं दाक्ष्यमदावेशमुदीक्ष्य वै । कर्तुं तदुपचारं मामुदुवाहेष मन्त्रवित् ॥ ११७ ॥ तत एव प्रतिज्ञाततीव्रभावांच मामसौ । कोशे शस्त्रीमिवेशः स्त्रीकृत्य धाम्नि न्यधादिह ॥ ११८ ॥ अस्तु वस्तुस्वभावाज्ञोऽनेन वाऽन्येन हेतुना । मां रक्षितुं सोद्यमोऽसौ न तु रक्षितुमीश्वरः ।। ११९ ।। यद्वाऽनेन विमर्शेनाधुना कृतमसाधुना । १ अलङ्कृत्य ।। २ नट इव । ३ पृष्टाम् । ४ शस्त्री यथा तीव्रतायुक्ता कोशे क्षिप्यते तथा मां स्त्रीकृत्य असौ ईशोऽत्र धानि न्यधात् ॥ श्रीचम्पकमाला कथा । ॥। ११॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy