________________
श्रीजैन कथासंग्रहः
॥१०॥
पेष्टुं च तां स्वामिदुर्दशामसहा' ग्रहाः । तदा ह्रीणां इव क्षीणांशवः प्रापुरदृश्यताम् ।। ९७ ।। प्रेक्ष्यारुणं रागारुणं प्राचीनसंस्तवात् । सुप्रकाशस्मिता रागं, दधौ सन्ध्यामिषात् स्फुटम् ।। ९८ ॥ भानुः स्वप्र ग्रहग्रस्तोदग्रग्रहमहः स्मयः । पूर्वाद्रिमौली माणिक्यमौलितामाश्रयत्तदा ।। ९९ ।। तदा बालाऽऽतपैः सूर्यो, द्यावाभूम्यावभूषयत् । प्रेयानिव समप्रेम्णा, स्वपत्न्यौ कुङ्कुमद्रवैः ॥ १०० ॥ तदा मित्रकरैः स्पृष्टास्तन्द्रां पद्मव्रजा जहुः । स्ववाक्यैः स्वागतं मित्रमप्राक्षुः पक्षिणो मुहुः ॥ १०१ ॥ तदा पयोधेः सौधाच्च, रविं क्ष्मापं च निर्गतम् । शिष्टास्तुष्टुविरे तुष्टास्तेजःपुञ्जविराजितम् ।। १०२ ।। प्रभातविधिमासूत्र्य, महीमान् महिमाश्रयः । आस्थानमण्डपमलञ्चक्रे व्योमेव भानुमान् ।। १०३ ॥ साभिज्ञानं ततो गेहाद्युदीर्य प्रेष्य चानुगान् । तातं स तस्याः कन्यायाः, न्यायाढ्योऽजूहवन्नृपः ॥ १०४ ॥ तं चायातं स सम्मान्यः, सम्मान्याऽभीष्टया गिरा । स्माह श्रेष्ठिन् ! स्वपुत्र मे, देहि दक्षमतल्लिकाम् ।। १०५ ।। श्रेष्ठभूयिष्ठभार्योऽपि, परिणेष्याम्यमूमहम् । आमुक्तमुक्तामालोऽपि धत्ते पुष्पस्रजं न किम् ? ।। १०६ ।। तन्निशम्याभ्यधादिभ्यः, स्वामिन् ! सा परिणीयताम् । दिष्ट्या ते सौम्यदृष्ट्यापि, सम्बन्धः किं पुनस्त्वया ? ॥ १०७ ॥ कन्यां वयं मन्यामहे या काम्यते त्वया । गौरी गौरीषु नार्च्या, यां महेश: समीहते ? ।। १०८ ।।
१ असमर्थाः । २ पुरातनपरिचयात् । ३ किरण । ४ हर्षेण ।
श्रीचम्पकमाला कथा ।
॥१०॥