SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ . . श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। . . . . . ॥८॥ त्यजेत्पुत्रं च मित्रं च, पितरावपि शोभनौ । जीवितावधि भर्तारं, नत्यजेत् सा महासती॥३॥ इति नीतिवचोमन्त्राऽऽकर्णनानष्टधृष्टता। आजन्माराधयिष्ये स्वं, धवं राधेव माधवं ॥७६ ॥ तदाकापरा शाठ्यधरारुहधराऽवदत् । मुग्धे! किमिव वक्षीदं, जाड्याऽऽलस्यादिसूचकम् ।। ७७॥ सतीत्वलालसा त्वादृक्, स्यागुद्धिविकलाऽऽलसा। दक्षा मादृक्षा तु सर्व, स्वाभीष्टं साधु साधयेत्।।७८॥ अहं हि जातवीवाहा, गता च श्वशुरालयम् । करिष्ये कान्तमेकान्ताऽऽसक्तं नानाप्रलोभनैः ॥ ७९ ॥ परैरपि नरैः प्रेम, विधास्ये गुणबन्धुरैः । नानारसार्थिनी भृङ्गी, नैकमेव द्रुमं भजेत् ॥ ८० ॥ वयं चातुर्यमप्येकनरासक्तौ भवेत्कथम् ? । अनेकच्छेकसख्यं हि, प्रोक्तं चातुर्यकारणम् ॥ ८१ ॥ प्रौढस्त्रीणामनङ्गोऽपि, शाम्येदेकनरेण किम् ? एकेनाम्बुघटेनेवारण्यानीनां दवानल:?॥८२॥ एकत्रिया नतुष्यन्ति, कामिनो मानवा अपि । तेभ्यो भूयिष्ठकामास्त्री, तुष्येदेकनरेण किम् ? ॥ ८३॥ यदुक्तम् - नानिस्तृप्यति काष्ठानां, नापगानां महोदधिः । नान्तकः सर्वभूतानां, न पुंसां वामलोचना: ॥१॥ यद्दक्षाऽपि सती स्यात्तत्, तादृक् पुंसोऽसमागमात् । तादृशान्याश्रयालाभाच्छ्रयन्त्यम्बुधिमापगा: . . . . . ॥८॥ १ किमतेरिव शब्दयोजनं कथयत्यर्थमभित्रमेव हि । किमिवास्ति सुखं शरीरिणां विषयातीवविलुप्तचेतसाम् ॥१॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy