________________
.
.
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
.
.
.
.
.
॥८॥
त्यजेत्पुत्रं च मित्रं च, पितरावपि शोभनौ । जीवितावधि भर्तारं, नत्यजेत् सा महासती॥३॥
इति नीतिवचोमन्त्राऽऽकर्णनानष्टधृष्टता। आजन्माराधयिष्ये स्वं, धवं राधेव माधवं ॥७६ ॥ तदाकापरा शाठ्यधरारुहधराऽवदत् । मुग्धे! किमिव वक्षीदं, जाड्याऽऽलस्यादिसूचकम् ।। ७७॥ सतीत्वलालसा त्वादृक्, स्यागुद्धिविकलाऽऽलसा। दक्षा मादृक्षा तु सर्व, स्वाभीष्टं साधु साधयेत्।।७८॥ अहं हि जातवीवाहा, गता च श्वशुरालयम् । करिष्ये कान्तमेकान्ताऽऽसक्तं नानाप्रलोभनैः ॥ ७९ ॥ परैरपि नरैः प्रेम, विधास्ये गुणबन्धुरैः । नानारसार्थिनी भृङ्गी, नैकमेव द्रुमं भजेत् ॥ ८० ॥ वयं चातुर्यमप्येकनरासक्तौ भवेत्कथम् ? । अनेकच्छेकसख्यं हि, प्रोक्तं चातुर्यकारणम् ॥ ८१ ॥ प्रौढस्त्रीणामनङ्गोऽपि, शाम्येदेकनरेण किम् ? एकेनाम्बुघटेनेवारण्यानीनां दवानल:?॥८२॥ एकत्रिया नतुष्यन्ति, कामिनो मानवा अपि । तेभ्यो भूयिष्ठकामास्त्री, तुष्येदेकनरेण किम् ? ॥ ८३॥ यदुक्तम् -
नानिस्तृप्यति काष्ठानां, नापगानां महोदधिः । नान्तकः सर्वभूतानां, न पुंसां वामलोचना: ॥१॥ यद्दक्षाऽपि सती स्यात्तत्, तादृक् पुंसोऽसमागमात् । तादृशान्याश्रयालाभाच्छ्रयन्त्यम्बुधिमापगा:
.
.
.
.
.
॥८॥
१ किमतेरिव शब्दयोजनं कथयत्यर्थमभित्रमेव हि । किमिवास्ति सुखं शरीरिणां विषयातीवविलुप्तचेतसाम् ॥१॥