________________
श्रीचम्पकमाला
श्रीजैन कथासंग्रहः
॥७॥
द्रक्ष्यामि वा कथम् ? ।। ६५ । दिदृक्षा यद्यपीदृक्षाऽस्मादृक्षाणां न युज्यते । खला: 'खलु परच्छिद्रवीक्षासज्जा न सज्जनाः ॥ ६६ ॥ मया वीक्ष्यं तथाऽप्येतन्निणेतुं तत्सुधीवचः । सम्यग् वीक्षां विना वस्तुनिर्णयः खलु दुष्करः॥ ६७॥ शिष्टगी मृषा यद्यप्यहं वीक्षे तथाऽप्यदः । श्रुताद् दृष्टं विशिष्टं हि, शिष्टं शिष्टजनैननु ।। ६८॥ अद्यैव च परीक्षा सा, विधातुमुचिता मम । कार्यात्सुक्ये विलम्बो हि, भवेदरतिकारणम् ॥ ६९ ॥ विमृश्येति भुवो भर्तकाकी नाकीव शक्तिमान् । नीलाम्बरो बल इव, निशितासिकरो निशि ॥ ७० ॥ निर्गत्यान्तःपुरादन्तः पुरं छन्नतया भ्रमन् । द्वे कन्यके क्वचित् क्रीडासक्ते 'व्यक्ते ददर्श सः॥७१॥ युग्मम् ॥ संलापं स तयोः श्रोतुं, तत्र यावदवास्थितः । तयोरेकाऽवदत्तावत्, स्वभावसरला कनी ॥ ७२ ॥ हलेऽहं विहितोद्वाहा, सोत्साहा स्वपतिं सदा । सेविष्ये परमप्रीत्या, नीत्यायातमिदं खलु ॥ ७३ ॥ गृहभारस्य वोढायां, विवोढाऽऽज्ञां प्रदास्यति । सततं तां वहिष्येऽहं, शिरसा सरसा हृदि।। ७४॥ पतिव्रतानां स्त्रीणां हि, भवेद्भर्त्तव दैवतम् । तदाज्ञाराधनं तासां, तद्धर्म परमो मतः॥७५॥ उक्तं हि-नदानःशुद्धयते नारी, नोपवासशतैरपि। अव्रताऽपि भवेच्छुद्धा, भर्तृहृद्तमानसा ॥१॥ अन्धं च कुब्जकं चैव, कुष्ठाडू व्याधिपीडितम् । जीवितावधि भर्तारं, पूजयेत्सा महासती॥२॥ १ यस्मात् २ उक्तम । ३ निपुणे।
॥७॥