________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥६॥
।न किं जात्यमपि स्वर्ण, परीक्ष्येत तदर्थिभिः ?॥५३॥ कन्यामन्यां शठम्मन्यां काञ्चित् परिणयाम्यहम् । कषोपलोपमां वाक्यस्वर्णस्यास्य परीक्षणे ॥५४॥ विमृश्येति विशामीशः, प्रत्यासन्नेऽशनक्षणे । सभाजनं विसृज्यागात्, स्नानवेश्म मनोरमम् ॥५५॥ तत्र स्नात्वा स विधिना, गत्वा च जिनसद्यनि । अर्हतामहणामस्तगर्हणां विदधे विभुः॥५६॥ ततोऽसौ भोजनस्थानमागतो बुभुजे सुखम् । दिनशेष विशेषज्ञैः, समं गोष्ट्या समत्यगात् ॥ ५७ ॥ अथ ज्ञात्वेन्दुभर्तारं, निशायां सङ्गमोद्यतम् । सन्ध्यारागागरागाऽऽढ्या, गगनश्रीरजायत ॥ ५८ ॥ यस्योदयोऽस्ति तस्यास्तमप्यस्तीतीव सूचयन् । तदार्यमा जगामास्तमस्तपर्वतमस्तके ॥ ५९॥खगमस्तङ्गतं वीक्ष्य 'खगाः कोलाहलं परे । चक्रिरे स्वस्ववाग्योगैस्तद्वियोगासहा इव ॥ ६०॥ लोकम्पृणार्कभूपास्तैर्ध्वान्तैर्लोकापकारिभिः । तदा प्रस्फुरितं चौररिवावसरवेदिभिः॥६१॥ सङ्कुचत्पद्यवदनास्तदा निःश्रीकतां गताः। वीक्ष्याऽब्जिन्यः स्वकान्तास्तं, मम्लुः सत्य इव द्रुतम् ।। ६२ ।। ततस्तताभियोगोऽसौ, कृतसान्थ्यविधिः कृती। शुद्धात्माऽऽगत्य शुद्धान्तं, भेजे तल्पमनल्पधीः ।। ६३ ॥ तत्र वारवधूवारोपचारैरपि स प्रभुः । नाऽऽपस्वापं कोविदोक्तमर्थं स्त्रीगोचरं स्मरन् ॥ ६४ ॥ दध्यौ च वामवामाक्षीदुश्चरित्रं विदामपि । दुर्बोधमुक्तं तत्कीदृग, भावि १ पूजाम् । २ सूर्यम् । ३ पक्षिणः । विशाळ उत्साह .
॥६॥