________________
श्रीचम्पकमाला
श्रीजैन कथासंग्रहः
कथा।
..
यतः-अवास्तवैर्वास्तवैर्वा, संस्तवैः संस्तवैषिणः। ये प्रियोक्तिप्रियान्नाथान्, रञ्जयन्ति जयन्ति ते॥१॥ - इत्येते तेजसांधाम, बहुधा मधुरोक्तिभिः। स्तुवन्ति त्वां घनमिव सारङ्गाः कलमार्थिनः॥४२॥ सत्यं पृच्छसि चेदेव ! वाचाटोऽहं तदा बुबे । को वाचाटं विना राज्ञः 'प्रतीपं प्रतिपादयेत् ॥ ४३ ॥ यद्यपि त्वं कला वेत्सि, सर्वाः सर्वसहापते ! । तथाऽपि न स्त्रीचरितकला ते विषयो मतेः ॥४४॥ क्रियाकारकभावार्थ गूढादीन्यपि ये विदुः । सर्वशास्त्रविदः स्त्रीणां, हृददं तेऽपि नो विदुः॥ ४५ ॥ ये वञ्चयन्ते सुधियः, स्वधिया त्रिदशानपि । तेऽपि 'सत्तमहेलाभिर्महेलाभिः प्रवञ्चिताः ॥ ४६॥ चेतो विलासेन्द्रजालैर्मोहयन्ति विशां वशाः । शक्तिर्मूढहदां च स्यात्, व तच्चरितचिन्तने ? ॥४७॥ मदिरावन्मदिराक्षी क्षीव यत्यङ्गिनं क्षणात् । मरौ सरिदिव क्षीवे, तत्त्वचिन्ता च दुर्लभा॥४८॥ तन्नाथ! नारीचरितं दुर्बोधं धीमतामपि । व्योम्नीव विष्किरपदं, मीनक्रम इवाम्भसि ॥४९॥ तज्ज्ञानं च विना नाथ!, वेत्सि त्वं सकला: कलाः । इति प्रवदतामेषां, गीरङ्गीक्रियते कथम् ?॥५०॥ तनिशम्य नृपः सम्यग्, दध्यावध्यात्ममानसः। सत्यमस्य वचो नूनमनूनज्ञानशेवधेः॥५१॥ नीतिशास्त्रादिसंवादिवचनं ह्यस्य तेषु यत् । पारावारादप्यपारं, कुस्त्रीचरितमीरितम् ॥५२॥ सत्यप्येवं परीक्षेऽहं, सत्यमप्येतदात्मना १ प्रतिकूलम् । २ उत्तमसुरतक्रीडाभिः । ३ मनुष्याणाम् । ४ मत्तं करोतीति ।५ पक्षिचरणम् । ६ निश्चिन्तमानसः ।।
॥५॥