SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कृत्वावबिम्बमर्चवादद्योत आणि ... श्रीचम्पकामाला कथा। ॥४॥ महाप्रभावैर्यच्चित्ते, सिद्धसेनदिवाकरः । अपास्य मिथ्यात्वतमः, सम्यक्त्वोद्योत आहितः ॥ ३०॥ स्तवानुभावाद्धित्त्वोग्रलिङ्गं तैरेव सूरिभिः । प्रादुष्कृतं पार्श्वबिम्बमर्चन् यो भृशमैधत ॥३१॥ यः स्वर्ण स्वर्णमयोत्थं, नृणां दत्त्वानृणां धराम् । कृत्वा संवत्सरं स्वीयं, सत्तावत् सर्वगं न्यधात् ॥ ३२॥ निघ्नन् पीडां सहित्वाऽपि, परदुःखानि योऽनिशम् । जीमूतवाहनादीनां; कथामवितथा व्यधात् ॥३३॥ कलाचार्य इवाबोधि, सकलाः सकला: कलाः । तथाऽपि सोऽभवत् स्वल्पकलावत्यपि सादरः॥३४॥ इत्यनेकगुणास्थानं, सोऽन्यदा बिबुधैर्वृतः । आस्थानं भूषयामास, सुधर्मामिव वासवः ॥ ३५ ॥ गोष्ठी शिष्टैस्तदारेभे, तस्य संसदि सम्मदात् । कलावैषम्यविषयतारतम्यविवेचिनी ॥ ३६ ॥ तां निशम्य नृपोऽवादीत्, भो भो ब्रूत विशारदाः! विषमामप्यहं सम्यक्कलयामि न कां कलाम् ॥ ३७॥ तेऽप्यभ्यधुः सभ्यधुर्या, वर्यधीजितगीष्पते !। न हि काऽपि कला विश्वे, साऽस्ति वेत्ति न यां प्रभुः ॥ ३८ ॥ याः शास्त्रशस्त्रकरणाभ्यासरूपा: कला विभो!। याश्च प्रज्ञाप्रकाशोत्थास्त्वयि सर्वा वसन्ति ताः ॥ ३९॥ तां तदुक्तिं समाकर्ण्य, सकर्ण: कोऽपि कोविदः । धूतमूर्द्धाऽभ्यधान्मूर्द्धाभिषिक्तमिति युक्तवाक् ॥ ४०॥ स्वामिन्नमी न मीमांसापूर्व सर्वे वदन्त्यदः। प्रीणयन्ति प्रियाऽऽलापैः, किंतु त्वामिष्टदायिनम् ॥४१॥ १ शिवलिङ्गम् । २ सर्वव्यापिनम् । ३ सत्याम् ।। ४ विचारपूर्वकम् । OM YOOO ॥४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy