SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। म्भकुम्भासा असूचि केवाम । सुरता ॥३॥ • सन्मुदिता जनाः । कारुण्यपुण्या दुष्कर्मोपेक्षादक्षा मुमुक्षवत् ॥ १८ ॥ तत्राचलातपत्राभाऽचलायास्तापहारिणी। राज राजधानी स्वर्जयिन्युज्जयिनी पुरी ॥ १९ ॥ सुखावहा बहा' दीप्रा, शिप्रा क्षिप्राङ्गिपावने । रेजे यदन्तिके सिद्धापगेव स्वर्गसन्निधौ ॥ २०॥ राजारामराजी यां, परितः परितोषकृत् । यया जितं हिया मेरुमाश्रयत् खलु नन्दनम् ॥ २१॥ प्राकारः प्रवरो यस्यां जलाब्यपरिखाञ्चितः । सप्रेमप्रेयसीजुष्टः', प्रेयानिव दधौ श्रियम् ॥ २२ ॥ यत्रार्हतां गृहाः 'शातकुम्भकुम्भाङ्कसानवः । नवोदितार्कसम्पृक्तमुदयादि व्यडम्बयन्॥२३॥ सौधेषु यत्र धनिनां, प्रायो द्रविणसम्मितिः । असूचि के तुभिः कोटिसङ्ख्यानुमितिहेतुभिः॥२४॥ न साम्यं यन्य हेच्छानामर्थीच्छाधिकदायिनाम् । सुरद्रमणयो भेजुः, समीहामितदायिनः ।। २५ ॥ तत्रासीत्रासितारातिधूको विक्रमतेजसा । सान्वर्थनामा स्थामाढ्यो, विक्रमादित्यपार्थिवः ॥ २६ ॥ यो धैर्येण च बुद्ध्या चाग्निकवेतालनिर्जरम् । उपाचरत्तथा राज्यं, तं च चक्रे यथाऽऽत्मसात् ॥ २७ ॥ दानशौण्डो ददौ दानं, तथा सोऽत्यर्थमर्थिनाम् । अब्दा इवाब्धेतृत्वं यथा तस्यार्थिनोऽप्यगुः ॥ २८॥ आजन्मतोऽपि विमलं यस्तथा शीलमाश्रयत् । परस्त्रीसोदर इति, यथाऽद्यापि स गीयते ॥ २९ ॥ १नदी। २ सेवितः । ३ स्वर्णम् ।। ४ उदारानाम् । ५ अव्यरर्थिनः अब्दा इव मेघा इव यस्य राज्ञोऽर्थिनो दातृत्वं ययुः । ॥३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy