________________
श्रीजैन कथासंग्रहः
॥२॥
प्राणभूतमप्येतदेव हि । यदस्मिन् सर्वथा नष्टे चारित्रं हि सदप्यसत् ॥ ८ ॥ अन्यव्रतानां भग्नानां, सन्धानं जातु जायते । भग्नस्यास्य' तु तत् पक्वमृत्कृम्भस्येव दुष्करम् ।। ९ ।। सम्यगाराधितस्यास्य, प्रभावोऽप्यद्भुतावहः । ऐहिकः पारत्रिकश्च, सुप्रतीतो जगत्त्रये ॥ १० ॥ ज्ञात्वा विशेषैरित्याद्यैः, शीलस्यापि प्रधानताम् । तन्माहात्म्यं वदे' तस्याः, शीलवत्या निदर्शनात् ॥ ११ ॥ तथा ह्यत्रैव भरते, भरिते कमलाभरैः । देशोऽस्ति मालवो नाप, यस्य स्वर्गोऽपि मालवम्' ।। १२ ।। पुराणि यत्र राजन्ति, विमानानीव ताविषे । ' वराप्सरांसि सद्धामान्युल्लसद्विबुधानि च ।। १३ ।। ग्रामाश्च विषयग्रामा, इव यत्र विदामपि । 'श्यामारामाभिरामा द्राक् प्रीतिमन्तर्वितन्वते ।। १४ ।। सुधासारं सुरत्रस्तो, मन्येऽब्धिर्न्यासयद्भुवि । नो चेत्कथं स्युः सर्वत्रेक्षवस्तत्र सुधारसाः ।। १५ ।। सिद्धिः स्याद्बहुधान्याया यत्राल्पेऽप्यागतेऽम्बुदे । स्वल्पेऽप्यधिगते शास्त्रे, कुशाग्रीयमताविव । १६ ।। दुर्भिक्षोपल्पवो यत्र, कृतसर्वाङ्गविप्लवः । तमिस्रोपद्रवः स्वर्ग, इव जातु न जायते ।। १७ ।। यत्र मैत्रीजुषोऽन्योन्यं भान्ति 'शीलस्य ॥ २ दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे वदः ३-३-७८ इत्यात्मनेपदं अत्र बदे- दीपयामीत्यर्थः । ३. माया लक्ष्म्या लेशस्तम् । ४ नगरपक्षे अपां सरांसि अप्सरांसि वराणि अप्सरांसि येषु तानि तथा । विमानपक्षे वरा अप्सरसो येषु तानि तथा । ५ ग्रामपक्षे श्यामैरारामैरभिरामाः । विषयग्रामपक्षे श्यामा षोडशवार्षिकी अप्रसूताङ्गना च । एवंविधा या रामा वशास्ताभिरभिरामाः । अत्र श्यामाशब्दस्य संज्ञाशब्दत्वेन पुंवद्भावः । ६ व्यस्तवान् । ७ बहुधान्यलाभा। पक्षे बहुधा बहुप्रकारा न्याया युक्तयो यस्यां सा
श्रीचम्पकमाला
कथा ।
॥२॥