________________
श्रीजेन कथासंग्रहः
॥ अथ धम्मिल कथा॥
॥१६॥
अन्येधुरागमदूरिशिष्यो धर्मरुचिर्गुरुः । राज्ञा पौरैर्धम्मिलेन प्रणतो धर्ममादिशत् ॥ १८७ ॥ नत्वाऽथ धम्मिलोऽप्राक्षीत् किं मया प्राग्भवे कृतम् । येनैवं सुखदुःखानि प्राप्तोऽहं गुरुरुचिवान् ॥ १८८ ॥ जम्बूद्वीपाभिधे द्वीपे भरतक्षेत्रमध्यगे। भृगुकच्छे गृहपतिर्मिथ्यादृष्टिर्महाधनः ॥ १८९ ॥ सुनन्दा प्रेयसी तस्य सुनन्दाख्यः स्तनंधयः । साधिकाष्टसमोऽधीत: 'कुलोचितकलोऽभवत् ॥ १९० ॥ तगृहेऽन्येधुराजग्मुरिष्टः प्राघुर्णिकस्तदा । तदर्थं प्रेषित: सूनुरेकेनातिथिना सह ॥ १९१ ॥ आनेतुं शौनिकागारान्मांसं तत्तत्र नाभवत् । वारितोऽपि सुनन्देनागात्कैवर्तालयेऽतिथिः ॥ १९२ ॥ गृहीतास्तेन जीवन्त: पाठीनाः पञ्च तत्र च । सुनन्दस्यार्पयित्वा तानूचिर्वांस्त्वं व्रजन् भव ॥ १९३ ॥ कायशुद्धिं विधायैमि प्रतीक्षेथाः परुः पथि । सुनन्देनापि ते क्षिप्तास्तिमयः कृपया जले ॥ १९४ ॥ अथ प्राघूर्णकोऽभ्यागात् पृष्टं मत्स्याः क्व ? सोऽवदत् । क्षिप्ता नीरे व्यषीदत्स द्वावप्यथ गतौ गृहे ॥१९५॥ पृष्टं पित्रा किमानिन्ये स स्माहालम्भि नामिषम्। द्वितीयः स्माह पञ्चात्ता: जीवन्तस्तिमयो मया॥१९६।। परं क्षिप्ता जलेऽनेन पित्रोक्तः सरुषाऽथ सः । बूचेऽप्सु कृपया क्षिप्ता यद्वोऽभीष्टं विधत्त तत् ॥ १९७ ॥ पित्राऽथातिक्रुधाऽत्यन्तं निर्भातीव कुट्टितः । स पीडां सहमानस्तां मृतो मध्यमभावतः ॥ १९८ ॥ १. कुत्रचित्सकलोऽभवत् इत्यापि पाठः।
॥१६॥