SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीजैन : कथासंग्रहः ॥ अथ धम्मिल कथा॥ ॥१५॥ '. राज्ञा श्रुतं ततः॥१७४ ।। तुष्टेन निजराज्यस्य विभागोऽस्य व्यतीर्यत । कारितं तस्य सौधं च स तत्रास्ते स्म राजवत् ॥ १७५ ॥ सार्थवाहो धनवसुरप्यतुर्यत्तदागमात् । सोऽप्यानीयार्पयत् पुर्वी तस्याद्योढां यशोमतीम् ॥ १७६ ॥ अन्यदान्तःपुरासन्नं चरन्तं खेचरं विटम् । हत्वा यावत्सशङ्कोऽस्ति दिव्यस्त्री तावदागमत् ।। १७७॥धम्मिलेन तु सा दृष्टा तयोक्तं शृणु सुन्दर ! । वैताढ्ये दक्षिणश्रेण्यामशोकपुरपत्तने ॥१७८॥ खेचरेन्द्रो महासेनस्तस्य भार्या शशिप्रिया। सूनुर्मेघरथो नाम मेघमालाऽहमङ्गजा ॥ १७९।। 'पितृभ्यामन्यदा ज्ञातं प्रज्ञप्त्या मेघरथोऽधमः । दुहितुर्भाविना भर्ना दुर्नयान्मारयिष्यते॥१८०॥ अत्रापरो नृपो भावी ततोऽम्बा विषसाद मे। अन्यायिनोऽपि पुत्रस्य व्यथते हि विपत् प्रसूम् ॥१८१।। माताऽथ ममावेद्य कुशाग्रपुरमीयिवान् । भ्रातृस्नेहात्तमन्वागामत्र चाऽऽकर्णितं मया॥१८२॥ धम्मिलेन हत: खेटस्ततोऽहं रोषनिर्भरा । अशोकवनिकां प्राप्ता तत्र त्वं वीक्षितो मया ॥ १८३ ॥ गतो रोषोऽनुरागोऽभूत्तत्प्रसीदाधुना मम । अत्राणाया भव त्राणमित्युक्त्वांऽद्यो: पपात सा॥१८४ ।। ततः सा तेन गान्धर्वविवाहेन विवाहिता । तामप्यादाय निःशङ्को धम्मिल: स्वगृहेऽविशत् ॥ १८५ ॥ पत्न्या विमलसेनायाः संजातः सूनुरन्यदा । कृतपद्मरथाख्यः स कलाभिः सर्वहर्षदः ॥ १८६ ।। १. अन्यदा भूभुजास्माकं जनन्या सह मंत्रितं । को ममानंतरं राजा भविष्यत्यत्र पत्तने ।। १ ।। प्रत्यंतरे. ॥१५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy