________________
॥ अथ धम्मिल
कथा॥
ममातिप्रिया तस्या अतीवाहमपि प्रियः ॥ १६१ ॥ विद्युन्मत्यवदत्तस्याः कृत्वा सारामुपैम्यहम् । सोऽभ्यधाद्याहि याता सा सारां कृत्वा समागता ॥१६२॥ आख्याति धम्मिलस्याग्रे युवरूपमितः प्रिय !। दर्शनीयं सश्रृङ्गारं कृत्वा तस्या गृहेऽगमम् ॥ १६३ ।। दृष्टा वसन्ततिलका पत्युविरहतः कृशा। त्यक्तनिःशेषशृंगारा जरन्मलिमसांशुका ॥ १६४ ॥ कृतवेणिबंधा ध्यायंत्यस्ति त्वामेव केवलं । पुरुषद्वेषिणी लीना मां नावलोकयत्यपि ॥ १६५॥ ततः पुंरूपमुत्सृज्य भूत्वाऽहं निजरूपभाक् । डूचेऽहं प्रेषिताऽस्म्यत्र धम्मिलेन महात्मना ॥ १६६ ॥ हले ! वसन्ततिलके ! सारां कर्तुमहं तव । तदाकर्ण्य प्रमोदेनोद्भिन्नरोमाञ्चकञ्चुका ॥ १६७ ॥ सहसोत्थाय सस्नेहं गाढमालिङ्ग्य सादरम् । आपप्रच्छच्च मां हर्षात् कुत्र ? मे प्राणवल्लभः ॥१६८ ॥ उक्तं मयाऽस्ति चम्पायां ततो मे त्वद्वियोगजम् । मुञ्चत्यश्रूणि भूयांसि दुःखं सर्वं न्यवेदयत् ॥१६९ ॥ विद्युन्मत्या तदाख्यातं श्रुत्वाऽभूदुन्मनाः क्षणात् । साऽथ विज्ञाय तञ्चित्तं चलनोपक्रमं व्यधात् ।। १७० ॥ मेलयित्वा प्रियाः सर्वा विमानं विदधे महत् । राज्ञो राजकुमारस्यानुज्ञयाऽशेषभूतियुक्॥ १७१॥ सप्रियो धम्मिलस्तत्राधिरोप्य क्षणमात्रतः । कुशाग्रपत्तने नीतः किं दूरं व्योमचारिणाम् ॥ १७२ ॥ गृहे वसन्तसेनायाः प्राविशत्सपरिच्छदः । वसन्ततिलका दृष्टा तयाप्याऽऽलोकित: प्रियः ।। १७३ ॥ मेघाऽऽगमे मयूरीवाभत सा प्रमोदवशंवदा। अमित्रदमनेनैतत्सर्व.
॥१४॥