________________
श्रीजैन कथासंग्रहः
॥अथ पम्मिल कथा॥
॥१३॥
तव युज्यते ? । हतो विमन्तुर्माता सोऽवग्विज्ञाय नो हतः ॥ १४८ ॥ भवितव्यतया जातमेतद्दोषो ममात्र न । साऽथ स्माह भवद्वृत्तं तत्सर्व कन्यया तया ॥ १४९ ॥ न्यवेद्यस्माभिरुक्ताऽथ तमिहानय सत्वरम् । तया तु रभसा श्वेता पताकोत्तम्भिता ततः ॥१५०॥ उपक्रांतो भवानाप्तः सर्वतः शोधितोपि हि। प्रेषिताहं ततस्ताभिः सर्वाभिस्त्वामवेक्षितुं ॥ १५१ ॥ मयाऽशोधि पुरे ग्रामारण्येषु पुण्ययोगतः। त्वामदर्शमहं तावचिन्तामणिमिवाधुना ॥ १५२ ॥ तमापृच्छ्य ततो व्योम्ना गत्वा षोडश कन्यकाः। स्वभगिन्या सहानैषीज्झगित्येव तदन्तिकम् ॥१५३॥ अष्टादशापि युगपद्धम्मिल: परिणीतवान् । ताभिः समं परं सौख्यं समस्त्यनुभवन् भृशम् ॥ १५४ ॥ विद्युन्मत्याऽन्यदाऽभाणि विमला किं तवोचितम् । पत्युः पदाहर्ति कतु पतिः स्त्रीणां हि देवता॥१५५॥ विमलाऽप्यवदत् स्मित्वा किं पत्युरपि साम्प्रतम्। सपन्त्या अभिधानेन पल्या आह्वाननं शुभम् ? ॥१५६ ॥ सोचे प्रियजनाह्वानग्रहणं कुरुतात् प्रियः। त्वत्पादस्य पुनर्योग्यो दण्डोऽत्र प्रियताडनात् ॥१५७॥ विमलाऽथ हसित्वोचे पादोऽयं वोऽर्चनोचितः। नानेनाताडयिष्यं चेन्मत्प्रियो वः प्रियस्ततः॥१५८॥अभविष्यत्कथं सर्वाः स्मित्वा तूष्णीमवस्थिताः। परिहासनिवृत्तौ च विद्युन्मत्याह हे प्रिय!॥१५९॥का सा वसन्ततिलका? धम्मिल: स्माह तत्कथाम् । अमित्रदमनो राजा कुशाग्रपुरपत्तनम् ॥ १६० ॥ वसन्तसेना वेश्याऽस्ति वसन्ततिलका सुता । सा
॥१३॥