________________
श्रीजैन कथासंग्रहः
॥अथ पंम्मिल कथा।
॥१२॥
प्रेषयच्चम्पांजगाम च तदैव सः॥१३४॥ तदा च तत्र भूपस्य स्तम्भमुन्मूल्य हस्तिराट् । पुरीमुपद्रवन्नस्ति महामदवशं गतः॥१३५॥ तत्रेन्द्रदत्तसार्थेशसूनुः सागरदत्तकः कमला रकमलश्रीश्च ३धनश्री देवकी तथा॥१३६ ॥५कुमुदा६ कुमुदानन्दा७ विमला ८वसुमत्यथ । कन्याष्टकविवाहार्थं सर्ववैवाहिकान्वितः ॥१३७॥ यावदस्ति व्रजस्तावन्मत्तस्तत्रागतः करी। नष्टः सागरदत्तोऽथ सर्वाः कन्या विमुच्य ताः॥१३८ ॥लोकः सर्वोऽपिचानश्यद्विभ्यंत्यस्ताश्च कन्यकाः। तस्थुर्वराक्यस्तत्रैव निःसरज्जीविता इव ॥ १३९॥ मृत्योर्मुखादिवाकृष्य कन्यास्ता हस्तिनोऽग्रतः। लघुहस्ततयोदग्रस्थाने संस्थाप्य धम्मिलः॥१४०॥ तं गजं गजमानज्ञः खेलयित्वा वशे व्यधात् । कन्यास्तु मातापितॄणां समस्तास्ता: समार्पयत् ॥ १४१॥ सागरः परिणेतुं ताः कन्याः पुनरुपस्थितः । न मन्यन्ते स्म कन्यास्तु स्वस्योद्वाहाय सागरम् ॥ १४२॥ प्राणानादाय नष्टोऽसावस्माँस्तत्याज मृत्यवे । प्रदत्तं जीवितं येन जीवितेशः स एव नः ॥१४३॥ विवादे भूभुजाऽप्येष निराक्रियत सागरः । दापिता धम्मिलस्यैव परिणिन्ये स तास्ततः॥१४४॥ चम्पेशेन समं सन्धिं कर्बटेशस्य चाकरोत् । सर्वकर्माणबुद्धेः स्यात्कार्य किमिह दुःशकम्॥१४५॥ स्वमथावापहारादि धम्मिलो वृत्तमात्मनः । अत्रागमनपर्यन्तं स्वप्रियाणां न्यवेदयत् ॥ १४६ ॥ अन्यदा चन्द्रशालायां धम्मिलस्य निषेदुषः । व्योम्नाऽऽगाखेचरी विद्युदिव विद्युल्लताऽभिधा॥१४७ ॥ उपालम्भं ददावार्यपुत्रेदं
॥१२॥