________________
श्रीजैन कथासंग्रहः
॥ अथ धम्मिल
कथा ।
॥११॥
.
परिणेष्याम्यमूरहम् ॥१२१॥ एकदैकत्र गोष्ठ्यां विद्युन्मत्यब्रवीदिति । अस्मन्नामानि चैतानि समस्तानि विदांकुरु ॥ १२२ ॥ श्रीचंद्राद्या रसुनंदाथ श्रीसेना३ च सुमंगला४ । सेना५ विजयसेना६ च ७श्री: सोमा८ च यशोमती९ ॥१२३ ।। श्रीदेवी१० च सुमित्रा११ च श्रीमती१२ मित्रवत्यथ१३ । सोमदत्ता१४ च गान्धारी१५ मित्रसेनाऽहमंतिमा१६ ॥ १२४ ॥ अधुना साधयन् विद्यां वंशजाल्यां स विद्यते । अचिन्तयद्धम्मिलोऽथ मया स एव मारितः॥१२५॥ ततः सोक्ता मैया सोऽद्य वंशजाल्यां स्थितो हतः। साश्रुर्विषण्णा सा दथ्यौ नान्यथा मुनिभाषितम् ॥ १२६ ॥ तद्गच्छाम्यार्यपुत्राहं तद्याम्योः कथयाम्यदः । चेद्रक्ते त्वयि ते स्यातां ततो रक्तां पताकिकाम् ॥१२७ ॥ उत्तम्भिष्येऽन्यथा श्वेतामिति सङ्केत एष ते । सच तद्तचित्तोऽस्थात् क्षणाच्छ्रेतां पताकिकाम् ।।१२८॥ दृष्ट्वा मयि विरक्ते ते ज्ञात्वाऽपक्रान्तवाँस्ततः । गच्छन्नवाप कान्तारे कर्बट तत्र सोऽविशत् ॥ १२९ ॥ सुदत्तो नाम तत्रेशश्चम्पाधिपसहोदरः । प्रिया वसुमतीतस्य पुत्री पद्यावती पुनः॥१३०॥ कन्यकां तत्र दृष्ट्वैकां शूला चानुकंपया। दत्त्वौषधं कृता भव्या श्रुतं तच्च महीभृता ॥ १३१ ॥ ततो नीतः स्वसौधं स स्वपुत्री रोगपीडिताम् । तां भव्यां कारितवास्तुष्टस्तेन तां पर्यणाययत् ॥ १३२ ॥ तत्र सार्धं तया भोगान् भुञ्जानोऽस्ति यथासुखम् ।। अन्यदोचे नृपः सन्धिं चम्पेशेन समं मम ॥१३३॥ कः करिष्यत्यभाषिष्ट धम्मिलोऽहं ततो नृपः । तमेव
॥११॥