________________
श्रीजैन कथासंग्रहः
8. ॥अथ धम्मिल
कथा ।
॥१०॥
कनकवालुकानद्यास्तटे गत्वा स्थितो हयः ॥ १०८ ॥ चरन्तं तत्र मुक्त्वाऽश्वं बभ्रामोपवनेषु सः । वीक्ष्यैकं वृक्षशाखास्थं खड्गमादत्त कौतुकात् ॥ १०९ ॥ अवाहयद्वंशजाल्यां लोहितं खड्गमैक्षत । आः किमेतन्मया चक्रे पश्यन् पश्यन् हतं नरम् ॥११०॥ दध्यिवानित्यसौ नूनं विद्यां कश्चन साधयन् । धूमपानं प्रकुर्वाणो मयाऽघाति नभश्चरः ॥ १११ ॥ निन्दयन् स्वं व्रजन्नग्रे स्त्रियं तरुतलस्थिताम् । दिव्यरूपां ददर्शकां वनाधिष्ठायिकामिव ॥११२॥ तां पप्रच्छाथ काऽसि ? त्वं कथमत्रावतिष्ठसे ?। वृत्तान्तं साऽभिधत्ते स्म समस्तं तस्य धीमती ॥ ११३ ॥ वैताढ्ये दक्षिणश्रेण्यामस्ति शङ्खपुरं पुरम् । तत्रास्ति पुरुषानन्दो विद्याधरनरेश्वरः ११४ ॥ राज्ञी कामपताकाऽस्य कामोन्मत्तस्तयोः सुतः । तथा विद्युन्मती विद्युल्लतेत्यास्ते सुताद्वयम् ॥ ११५ ॥ अन्यदाऽतिशयज्ञानी निकटे शिखरे गिरेः । धर्मघोषचारणर्षिः सुमनाः समवासरत् ॥११६॥ सपौरस्तं नृपो नत्वा धर्म शुश्राव तन्मुखात्। पप्रच्छानन्तरं राजा स्वपुत्र्यो विनं वरम् ॥ ११७ ॥ मुनिरप्युपयुज्याख्यद्यः सुतं ते हनिष्यति । तत्समाकर्ण्य संप्राप्तवैवर्ण्यः स्वगृहं गतः ।। ११८॥ अथापृष्ट्वाऽपि पितरं कामोन्मत्तस्तु तत्सुतः । स्वसृभ्यां सह निर्गत्य विद्याराधनहेतवे ॥ ११९ ।। कनकवालुकानद्याः प्रदेशे-सौधमद्भुतम् । विधायान्यान्यदेशेभ्यो राजामात्येभ्यपुत्रिका: ॥१२०॥ षोडशाऽऽनीय तत्रासौ सौधमध्ये मुमोच ताः । सिद्धविद्यः समं सर्वाः ।
॥१०॥