SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥अथ धम्मिल कथा॥ ॥९॥ व्रजान्तिके॥१४॥ स्मित्वाऽथ निर्गतो गेहाद्रच्छनाजाध्वसन्निधौ। दृष्ट्वा नागगृहं दीप्रदीपमुद्धतसौरभम् । ॥ ९५॥ प्रविश्य देवतां तत्र प्रणिपत्योपविष्टवान् । तदागात्तत्र पूजाङ्गव्यग्रहस्ता सखीयुता ॥ १६ ॥ उद्धिन्नयौवना कन्याऽर्चित्वा नागेन्द्रमानमत् । सुप्रसन्नोऽथ तामूचे स्वाभीष्टं वरमाप्नुयाः॥९७॥ धम्मिलं सोत्थिताऽपश्यद्धम्मिलोऽपि ददर्श ताम् । स तयोक्तः कुतो यूयं ? सोऽवक् कुशाग्रपत्तनात् ॥ ९८॥ भवती केति सोत्कण्ठं पृष्टा तेनेति साऽवदत् । अत्र नागवसुः श्रेष्ठी नागसेना तदङ्गना ॥ ९९ ॥ तत्सुता नागदत्ताहं नागं वरमथार्थये। अर्चित्वा सततं भक्त्या पुण्यैदृष्टो मया यतः॥१००॥ तन्मे मनोरथः पूर्ण इत्युक्त्वा सा गता गृहम् । तत्सर्व कथितं पित्रोः स ताभ्यां तां विवाहितः ॥ १०१।। तत्सखी कपिला तच्च श्रुत्वा कपिलराट्सुता। अकारयत्पितुः पार्थ्यात्स्वयंवरणमण्डपम् ॥ १०२ ॥ राजन्यादिजने तत्र घनेऽपि मिलिते सति । मुक्त्वा सर्वान् हृष्टमत्या धम्मिलो वरितस्तया॥१०३॥ राज्ञा स्वे च गृहे नीत्वा पर्यणाय्युत्सवेन सः । सनागदत्ताकपिलोऽपरेऽह्नि शिबिकागतः ॥ १०४ ॥ कारयन्मङ्गलिक्यादि स्वसौधान्तिकमागमत् । विमला प्रेक्ष्य तं तत्राऽऽरोह कृतमङ्गला ॥ १०५॥ ततः कान्तात्रयेणैष युतो राजगृहं गतः । राज्ञाऽथ राजपुत्रेण सत्कृत: ससुखं स्थितः॥१०६॥अन्यदा केनचिद्राज्ञस्तुरङ्गः प्राभृतीकृतः । धम्मिलोऽश्वं तमारुह्य वाह्याली गतवान् बहिः॥१०७॥ परीक्ष्य टंपझम्पाद्यैर्मुक्त्वा वेगेन स व्रजन् । ॥९॥ न
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy