________________
श्रीजैन कथासंग्रहः
ዘረዘ
ပြီး
विमलास्य प्रिया न वा । ज्ञातुमित्यादिशत्सर्वान् सुहृदो धम्मिलं तथा ।। ८२ ।। आगन्तव्यं मया सार्धमुद्याने सप्रियैः प्रगे । कर्तुमुद्यानिकां सर्वैः सर्वद्धय सपरिच्छदैः || ८३ ॥ धम्मिलोऽथाह कमलां विमला प्रातरेष्यति ? | कमलाऽप्याह तां भद्रे ! धम्मिलोक्तं विधीयताम् ॥ ८४ ॥ किंच वत्से ! किमेतं त्वं पतिं नैवानुमन्यसे । दानधर्मसमिद्वीरो' वीरोऽयं प्राप्यते कया ? ॥ ८५ ॥ यत्र त्वं पुंसि रक्ताऽऽसीः सोऽपि गुणः स्फुटम् । रूपयौवनभूत्याद्यैरितो नाऽन्यो नरो भुवि ।। ८६ ।। आत्मच्छन्दाः पुमांसोऽपि विनश्यन्ति बुधा अपि । किमुच्यते पुनः स्त्रीणामज्ञानध्वस्तचक्षुषाम् ।। ८७ ।। एवं तयोक्ता विमला प्रपेदे धम्मलं वरम् । हृष्टस्तां सोऽपि गान्धर्वविवाहेनोढवाँस्ततः ।। ८८ ।। कमलाविमलायुक्तो द्वितीयेऽहनि धम्मिलः । कुमारेण सहोद्यानं ययौ श्रीदस्य लीलया ॥ ८९ ॥ स्वेच्छया क्रीडितं तत्र सुहृदां दारकैः समम् । धम्मिलं विमलायुक्तं ललन्तं वीक्ष्य राजसूः ।। ९० ।। प्रीतस्तत्राथ सङ्गीतमतिस्फीतमचीकरत् । भुक्त्वा पीत्वा च रन्त्वा ते गृहं निजं निजं ययुः ।। ९९ ।। ततो विमलया सार्धं धम्मिलो विलसन् भृशम् । प्रमोदं परमं प्राप्तो नास्तं जानाति नोद्रतम् ।। ९२ ।। अन्यदा प्रेमकलहे विमलामाह धम्मिलः । वसन्ततिलके ! देवीभूयते नातिरोषणैः ।। ९३ ।। ततः प्रकुपिता पादतलेनाहत्य तं जगौ । वसन्ततिलकायास्त्वं वल्लभाया
१ युद्धः
॥ अथ धम्मिल कथा ॥
ዘረዘ