________________
श्रीजैन कथासंग्रहः
॥अथ धम्मिल
कथा।
॥७॥
चम्पां सुखेन च । आवासार्थ प्रतस्थेऽथ (सः) मध्ये मुक्त्वा रथं बहिः ॥ ७१ ॥ 'चम्पोपान्ते च चन्द्राख्यनद्यां कृत्वाधावनम् । क्रीडया नलिनीपत्रे पत्रच्छेद्यं 'व्यधात्ततः ॥ ७२ ॥ नद्यां प्रावाहयच्छुष्कतरुत्वग्वेष्टितं तदा । चन्द्रानदीतो गङ्गाया: प्रवाहे पतति स्म तत् ॥ ७३ ॥ पत्रच्छेद्यादिचित्राणि कुर्वाणो यावदस्ति सः । नदीतीरेण पुंयुग्मं तावदागच्छदैक्षत ॥ ७४ ।। तेनागत्येदमप्रच्छि पत्रच्छेद्यं चकार कः ?। स उवाच मया चक्रे ततस्तेनेदमौच्यत ॥ ७५ ॥ इहास्ति कपिलो राजा तत्पुत्रो रविशेखरः । गङ्गायामस्ति खेलन् स युवराट् सुहृदन्वितः ॥ ७६ ॥ ददर्श तव तत्पत्रविज्ञानं स्वर्नदीगतम् । तेनावां प्रेषितौ हर्षात्तं वैज्ञानिकमीक्षितुम् ॥ ७७ ॥ हृष्टस्त्वमेहि तत्तत्र सोऽगात्तं प्रणनाम च । कुमारेणापि सोत्कण्ठं स संभाष्योपवेशितः ।। ७८ ॥ ततः पृष्टः कुतो यूयं सोऽवक्कुशाग्रपत्तनात् । क्व मानुषाणि तिष्ठन्ति ? धम्मिलोऽवक् सरित्तटे ॥ ७९ ॥ ततः सधम्मिलो हस्तिस्कन्धाऽऽरूढो नृपाङ्गजः । कमलाविमले तस्मादानीय सौधमार्पयत् ॥ ८०॥ दिनैः कियद्भिः स्नानाद्यैः कायसंस्करणादभूत् । धम्मिलोऽपि स्वरूपेण विनिर्जितमनोभवः ।। ८१॥ एकदा राजपुत्रस्तु
१ कमलोचे पुरे धूर्त रक्ष्येस्त्वं भद्र ! वंच्यसे । सोऽवदद्दशभिर्भूतहिं लभ्य किमुच्यते ॥१॥ कमलाय हसित्वोचे विजयेतेहि सत्वरं । चंपोपांते च चंद्राख्या नधास्ते तत्र धम्मिलः ॥२॥२ विधाय सः इत्यपि पाठः।