________________
श्रीजैन कथासंग्रहः
* ॥अथ धम्मिल
कथा॥
॥६॥
चेलिवाऽद्य त्वया सार्द्ध प्रातस्त्वां वीक्ष्य साऽशुचत् । तदेतां त्वं वशे कुर्याः सोऽवक् बोध्या त्वयाऽप्यसौ ॥६०॥ व्यभावार्तयतोरेवं पृष्ट्वा ग्रामाधिपं ततः। चलिताश्चाटवीमापुर्वस्तरां भववार्द्धिवत् ॥ ६१ ॥ मार्गे वन्येभशार्दूलफणीन्द्रवनसैरिभाः। त्रासिता: सिंहनादाद्यैर्भीते चाश्वासिते स्त्रियौ ॥ ६२ ॥ अर्जुनश्चौरसेनानीनीतो यमपुरी युधा । पन्थानं सुवहं कृत्वा रथाऽऽरूढश्चचाल सः ॥ ६३ ॥ विस्मिता कमलाऽशंसद्विमला तु न किञ्चन । श्रुत्वाऽथाऽऽयत्परानीकध्वनि ते चकिते पुनः ॥ ६४ ॥ अथोचे धम्मिलो धैर्यान्मयि जीवति वां न भीः । तावदेकः पुमानेत्य धम्मिलं स्माह भो नर! ॥ ६५ ॥ निहतोऽर्जुनकश्चौर- सेनानीरिति सादरः । अजितसेन: पल्लीशो हृष्टस्त्वां द्रष्टमेत्यसौ॥६६॥ तावदागत एवासाववारोहत्तुरङ्गमात् । धम्मिलोऽथ रथोत्तीर्णः समाश्लिष्टौ मिथोऽथ तौ ॥ ६७ ॥ पल्लीश: स्माह ते वत्स! साहसं गुरु सोऽवदत् । देवतानां गुरूणां च प्रसादात्सर्वमप्यदः ॥ ६८॥ ततः स्नेहेन पल्लीशस्तं पल्लीमनयत्तदा । तत्र सक्रियमाणोऽस्थाद्धम्मिलोऽहानि कत्यपि ॥ ६९ ॥ कमला विमलाग्रे च तं प्रशंसति धम्मिलम् । साऽवोचद्रमकोऽयं न श्लाघनीयो ममाग्रतः ॥ ७० ॥ पल्लीपतिमथापृच्छ्य ययौ
॥६
॥