________________
श्रीजैन कथासंग्रहः
॥५॥
ပြီးပြီ၊
| पराभवपदं पुत्रि ! मात्रादीनां भविष्यसि ।। ४६ ।। देशान्तरगता तु त्वं कुर्याः सर्वं यथेप्सितम् । • तच्छृण्वन्नपि मौनेनाऽऽखेटयद्धम्मिलो हयौ ॥ ४७ ॥ ग्रामे क्वाप्याश्रयायान्तः सोऽगान्मुक्त्वा रथं बहिः । सोऽन्तः शल्यं हयं ग्रामस्वामिनः प्रेक्ष्य धम्मिलः ॥ ४८ ॥ शुष्कमृल्लेपतो ज्ञात्वाऽऽकृष्य शल्यं हविर्भृतम् । सीवित्वा व्रणमौषद्या रोहिण्याऽऽरोहयत्क्षणात् ।। ४९ ।। ग्रामेशो मुदितस्तस्य भव्यमाश्रयमार्पयत् । अश्वयोर्यवचारीश्च चक्रे चातीव गौरवम् ।। ५० ।। कन्याऽभीष्टजनालाभात् पश्चात्तापेन जागरात् । अस्वपीद्धम्मिलेनोक्ता बृहती के युवामिति ? ॥ ५१ ॥ साऽथोचे मागधपुरेऽस्त्यमित्रं दमनो नृपः । तत्पुत्र विमला प्राप्तयौवना द्वेष्टि पूरुषान् ।। ५२ ।। दुर्वाच्यानि वचांस्याह ततो राज्ञा पुराद्बहिः । सौधे सास्थापि दास्यास्या धात्र्यहं कमलाभिधा ॥ ५३ ॥ अन्यदा तत्रवास्तव्यसमुद्रदत्तनन्दनः । अदर्शि धमिलो नाम तया राजपथे व्रजन् ।। ५४ ।। सा तस्मिन्ननुरक्ताऽभूत्सख्याऽथ तमवीवदत् । मत्स्वामिनीमु सोऽभ्यधाद्द्वणिगस्म्यहम् ।। ५५ ।। नोद्वहे नृपतेः पुत्र साऽऽ हैकान्ते विवाह्यताम् । गम्यं देशान्तरे द्वाभ्यां नो चेदेषा मरिष्यति ।। ५६ ।। ततस्तद्दयया तेनोद्याने भूतगृहान्तरे । तत्रोभयोः सङ्गमोऽस्तु सङ्केत इति निर्म ॥ ५७ ॥ कथञ्चिन्न स तत्रागाद्युवा सौभाग्यभाग्यभूः । तत्समानाभिधानोऽस्या दैवयोगात्त्वमागतः ॥५८॥ आवामपि रथाऽऽरूढे तत्राऽऽयाते मयोदितम् । धम्मिलोऽस्त्यत्र संप्राप्तस्त्वयोक्तं धम्मिलोऽस्म्यहम् ॥ ५९ ॥
॥ अथ धम्मिल
कथा ।।
11411