________________
श्रीजैन कथासंग्रहः
॥ अथ धम्मिल
कथा॥
॥४॥
हिमवतो मिति । जानन्ति बुद्धिमंतोत्र न स्त्रीणां हृदयं पुनः ॥१॥ धम्मिलोऽवग् न निःशेषा भवन्त्येवंविधाः स्त्रियः । तत्रिवृत्तिन मेऽद्यापि ततोऽर्थाप्तिविधिं वद ॥ ३४ ॥ मन्त्राणां देवतानां चाराधनात्तपसाऽपि च । मुनिः प्रोवाच भो भद्र ! प्राप्यते धनमद्भूतम् ॥ ३५ ॥ गृहीतद्रव्यलिङ्गोऽथ धम्मिलो धनकाङ्क्षया। आचामाम्लतपश्चक्रे षण्मासान् वचसा मुनेः ॥ ३६ ॥ ततः साधुं तमानम्य द्रव्यलिङ्गं विमुच्य सः । भ्रमन्नेकं गतो भूतगृहं रात्रौ प्रसुप्तवान् ।। ३७ ॥ तत्र तद्देवतोवाच विश्वस्तस्तिष्ठ धम्मिल ! । द्वात्रिंशतं खेचरेशभूपकन्यास्त्वमाप्स्यसि ॥ ३८ ॥ स तच्छुत्वा प्रबुद्धः सन् गतशोकस्ततोऽभवत्। दध्यौ तपःप्रभावं चाधिकं चिन्तामणेरपि ॥३९॥ तदैव पुरतस्तत्रापश्यत् द्वार्यागतं रथम् । तत उत्तीर्य चैका स्त्री बभाषेऽत्रास्ति धम्मिलः ॥ ४० ॥ स बूचे धम्मिलोऽस्म्येष तयाऽवाद्येहि निःसर । रथमारोह सोऽप्याशु रथमारूढवान्मुदा ॥ ४१ ॥ ददर्शान्तरां कन्यां स्वीगिराऽप्रेरयद्रथम् । चम्पाध्वनि य (ग)तां रात्रिर्विभाताऽस्थाजलान्तिके॥४२॥पाययन्नीरमर्वन्तौ कन्ययाऽदर्शि धम्मिल: । तं दृष्ट्वा सा विरक्ताऽभूद्यत्रेच्छाऽजनि नैष सः॥ ४३ ॥ क्षुधाक्षामशरीरोऽयं प्रकटस्नायुजालकः । लुप्तालुप्तकचोऽशौचात् श्यामलो मलिनांशुकः॥४४॥ बूचे तां च त्वयाऽऽनीतः कोऽयं मर्त्यः पिशाचवत् । न द्रष्टुमपि शक्योऽसौ परिभोगोऽस्य किं पुनः?॥४५॥ निवर्तिध्ये ततः स्माह धात्री मा स्म निवर्तथा:
॥४॥