SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ अथ धम्मिल कथा॥ ॥३॥ . जीर्णोद्यानं गतस्ततः । तत्रासिना छिन्दत: स्वं देवता तमकुण्ठयत् ॥ २१॥ चितां प्रज्वाल्य चाविक्षद्देवता तामशान्तयत् । भक्षितं कालकूटं चं ग्रस्तं तजठराग्निना ॥ २२ ॥ मुक्तवान् स्वं तरोरग्राद्धूल्यां तूल्यामिवापतत् । तदा तं दिवि कोऽप्याह मा मैवं साहसं कृथाः ॥ २३ ॥ ततः स चिन्तयन्नस्ति कर्त्तव्यं किं मयाऽधुना । इतो वसन्ततिलका बुद्धाऽनालोक्य धम्मिलम् ॥ २४ ॥ पप्रच्छाकां धम्मिल: क्व? साऽऽह तं वेत्ति कोऽधनम् । साऽथ दध्यौ व्यधादेतदर्थमेवामुमुद्यमम् ।। २५ ॥ ततो वेणी बबन्धासौ सर्व शृङ्गारमत्यजत् । प्रत्यज्ञासीच्चेति नरं नेहेऽन्यं धम्मिलं विना ॥ २६॥ धम्मिलोऽपि ततो जीर्णोद्यानात् स्निग्धवनं गतः । अशोकद्रोरधः साधु धर्ममाख्यान्तमैक्षत ॥ २७ ॥ साधुस्तमाह किमहो ईद्दक्साहसकार्यसि । प्रणम्य सोऽभ्यधात्साधुं प्रभोऽहं दुःखभागिति ॥ २८॥ यत्यूचे तव किं दुःखं ? सोऽभ्यधात्साधुपुङ्गवम् । किं केनापि परित्राणं महुःखस्य भविष्यति? ॥ २९ ॥ इह दुःखं न यः प्राप्तो न यो दुःखहृतौ क्षमः । दुःखिते दुःखितो यो न दुःखं किं तस्य कथ्यते ॥ ३० ॥ यत्याह दुःखमाप्तोऽहमहं दुःखहतौ क्षमः । अहं च दुःखिते दुःखी तहुःखं कथ्यतां मम ॥ ३१ ॥ धम्मिलोऽथ निजं दुःखं सर्व चावेदयन्मुनेः । बूचे च मत्तोऽप्यधिकं किं ते दुःखमभूत्प्रभो ! ॥ ३२ ॥ अथास्यागडदत्तर्षिराख्यत्सा निजां कथाम् । सक्तस्त्वमप्यत: स्त्रीषु मा भूच्चेदुःखभीरुकः ॥ ३३॥ यदुक्तं - गंगाया वालुकामब्धेर्जलं ॥३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy