________________
श्रीजैन कथासंग्रहः
॥ अथ धम्मिल
कथा।।
॥२॥
पितोचेऽम्भः स्वयं नीचैर्यात्येव निरुपक्रमम् ॥ ८॥ परिक्षिप्तः सुहृद्रोष्ठ्यां स्नेहान्मात्रा सुतस्ततः । वसन्ततिलकावेश्यावेश्म तत्सङ्गतो गतः॥९॥ बहुकालं तदासक्तस्तत्रास्थाद्धोगलालसः। प्रत्यहं तद्गृहे प्रेषीद्दीनाराष्टशतं प्रसूः ॥ १०॥ एवं पूर्वार्जिते वित्ते प्रयात्यम्बा रुरोद सा। किं रोदिषीति भर्ताह द्रव्यं यातीति साऽवदत् ॥११॥ प्रियेणोचे मयाऽवारि तथाप्येवं कृतं त्वया। तन्मा रोदीस्ततः पुत्रवियोगात्पितरौ मृतौ॥१२॥ यशोमत्यपि नि:स्वत्वे प्रैषीत्स्वाभरणान्यपि। अक्काऽपि नि:स्वतां ज्ञात्वा पश्चात्तान्यार्पयत्ततः ॥ १३॥ साऽपि विक्रीय गेहाद्यं गच्छति स्म पितुर्गृहम् । डूचे वसन्तसेनाऽपि कुट्टिनी स्वां सुतामिति ॥१४॥ मुञ्चैनं निर्धनं सापि तद्रक्ता तं न मुञ्चति । इक्षुकूर्चादिदृष्टान्तानकोक्तानप्यजीगणत् ॥ १५ ॥ 'आपानकं व्यधादक्का तत्राचेतनयोर्द्वयोः । धम्मिलं निजदासीभिरौज्झयनगराहिः ॥१६॥ प्रातस्त्यैः पवनैर्बुद्धो वीक्ष्यात्मानं भुवि स्थितम् । चिन्तयामास चित्ते स्ववेश्याविलसितं यतः ॥ १७ ॥ सर्पाणां क्षितिपानां च व्याघ्राणं पावकस्य च । पण्यस्त्रीणां च प्रायेण न हि कोऽपि प्रियो भवेत्॥ १८ ॥ पृष्ट्वा नरं ततः स्वौकोगतस्य प्रातिवेश्मिकैः। द्रव्यब्ययो मृतिः पित्रो; पत्न्याः पितृगृहे गतिः॥१९॥ तच्चाकर्ण्य क्षणाद्वजाहतवन्मूर्छितोऽपतत्। विमूर्छश्चोत्थितो दध्यौ किमतो जीवितेन मे ॥ २०॥ निर्गत्य नगरान्मृत्यै १ कृत्वाला प्रोत्सवं शाठ्यादाहयत् प्रमदाकुलम् इत्यपि पाठः।
॥२॥