SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः 110811 नमतः प्रेक्ष्य, किमित्येतदचिन्तयत् ।। ९९६ ।। किं नु स्वप्नो मया दृष्टः, किं वा मे मनसो भ्रमः । किं वा कस्यापि देवस्य, चित्रमेतद् विजृम्भितम् ॥ ९९७ ॥ ततश्च प्रकटीभूय, चन्द्रचूडमणिप्रभौ । पुरः स्थित्वा सुरौ राज्ञः, सहर्षमिदमूचतुः ॥ ९९८ ॥ त्रिशङ्कुनन्दन ! श्रीमदिक्ष्वाकुकुलमण्डन ! भरतान्वयभूपाल !, हरिश्चन्द्र ! चिरं जय ।। ९९९ ।। धन्यः सुग्राह्यनामा त्वं यस्य वास्तोष्पतिः स्वयम् । सत्त्वं स्वीति मूर्धानं, धुनानो घुसदां पुरः ॥ ९२० ॥ यादृशः कथितो राजन्नचाल्यो द्युसदामपि । शक्रेण तादृगेवाऽसि, सात्त्विकेषु शिरोमणिः ॥ ९२९ ॥ माहात्म्येन तवैवेदं, पुना राज्यं तथैव हि । अढौकत निजस्फीत्या, निर्जिताऽमर- दानवम् ।। ९२२ ॥ वसुभूतिः स एवाऽयं, मन्त्री मित्रं च ते नृप ! शुकरूपः प्रविश्याऽग्नी, यो देव्याः शुद्धिमातनोत् ।। ९२३ ॥ कुन्तलश्चैष ते सेवां, करोति रचिताञ्जलिः । जम्बुकीभूय ते होमसङ्कटे यस्तदाऽरटत् ।। ९२४ ॥ शूकरोदन्तमारभ्य यावदद्य नरेन्द्र ! यत् । अनुभूतं त्वया विद्धि, तदस्मत्कूटनाटकम् ॥ ९२५ ॥ एतत् सर्वं भवत्सत्त्वपरीक्षारसिकैः खलु । अस्माभिर्विहितं तत् ते, क्षन्तव्यं महतां गुरो ! ।। ९२६ ॥ चित्रं परोपकाराय, मर्त्यत्वेऽपि भवादृशाम् । अवतारः परोत्तप्त्यै, स्वर्गेऽप्यस्मादृशां पुनः ॥ ९२७ ॥ किं वा कोऽपि गुणोऽस्माकमपि ते सत्त्वदीपनात् । सुवर्णस्य कथं रेखा, कषपहं विना भवेत् ? ॥ ९२८ ॥ तव सत्त्वेन सत्येन, हरिश्चन्द्र ! महानृप ! जलदो वर्षति कथाचतुष्टयी । 110811
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy