SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कवाचतुष्टयी। श्रीजैन कथासंग्रहः ॥७३॥ याचितुं स्फुटया गिरा ॥ ९०३ ॥ अर्पयाऽच्छादनमिति, संज्ञया प्रतिपादयन् । हस्तं प्रसारयामास, हरिश्चन्द्रः प्रियां प्रति ॥ ९०४ ॥ सुताराऽपि च तदभिप्रायं स्फुटमजानती। उच्चिक्षेप करे दातुं, रोहिताश्वं मुहर्मुहुः ॥ ९०५॥ अगृहति हरिश्चन्द्रे, पुत्रं साऽऽह ब्रवीषि किम् ? न जानामि तवैतां हि, संज्ञां ब्रूहि ततः स्फुटम् ॥ ९०६ ॥ धैर्यसन्दंशकाकृष्टवचनः सात्त्विकोऽवदत् । देवि ! तिष्ठतु वत्सोऽयं, वत्साच्छादनमर्पय ॥ ९०७ ॥ यावदेवं हरिश्चन्द्रो, बदत्यात्मप्रियां प्रति । तावत् तस्य शिरस्याशु पुष्पवृष्टिरभूद दिवः ॥ ९०८ ॥ अहो ! सत्त्वगहो ! धैर्य, हरिश्चन्द्रमहीपतेः । एवमुद्घोषणापूर्व, दुन्दुभिम्वनिरत्यभूत् ॥ ९०९ ॥ राजाऽप्यपश्यदात्मानमयोध्यायां निजौकसि । अलङ्कृतमहासिंहासनं स्वसदसि स्थितम् ॥ ९१० ॥ रोहिताश्वमपश्यच्च, क्रोडे क्रीडन्तमात्मनः । अश्रान्तकान्तिरत्नाहारस्फारश्रियं मुदा ॥ ९११ ॥ वसुभूति महामात्यं, कुन्तलाख्यं च सेवकम् । द्वावप्येतौ स्वस्वरूपी, पुरोऽद्राक्षीत् कृताञ्जली ॥ ९१२ ॥ यवनिकान्तरे चैव, द्रष्टुं नाटकमागताम् । सुतारां भाषमाणां च, सख्या शुश्राव भूपतिः ॥ ९१३ ॥ पुरतश्च सुसङ्गीतरसनिर्मनचेतसाम् । नृपाऽमात्यप्रभृतीनामपश्यत् संसदं निजाम् ॥ ९१४ ॥ प्रतिमन्दिरमैक्षिष्ट, क्रियमाणं च नागरैः । नृत्यत्पुरन्धिविनाण्यमानदानमहोत्सवम् ॥ ९१५ ॥ प्रतीहारमुखप्राप्तान, विजिज्ञपयिषून् जनान् । दूरतो ॥७३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy