SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टची। श्रीजैन कथासंग्रहः ॥७२॥ मया?॥ ८९० ॥ क्षमस्व वत्सलो हि त्वं, स्वेच्छया यत् तु रोचते । इति स्वं सान्त्वयन् पुत्रं, देव्याऽसौ परिदेवितः ।। ८९१॥ किं न पश्यसि मूढ ! त्वं, गतासुंतनयं निजम्। गतासुश्च कथं पश्येदाश्लिष्येन्निगदेदथ ? ॥ ८९२ ॥ किमारब्धं त्वया साध, नार्या किं नैषि सत्वरम् ? । इत्युक्तः श्वपचेनाऽसौ, भयाच्चैतन्यमासदत् ॥ ८९३ ॥ अज्ञासीच्च मृतं पुत्रं, चेष्टयाथाश्रुलोचनः । सुतारां पुत्रवृत्तान्तमप्राक्षीत् साऽप्यचीकथत् ।। ८९४ ॥ अद्याऽयं प्रातरेवाऽगाः, समित्-पुष्पकृते वने। विप्रेण प्रेषितो मन्दभाग्यो दष्टोऽहिना प्रिय !॥८९५॥ विनाऽऽत्मीयान कोऽप्यस्य, विषस्योत्तारणं व्यधात् । विना बन्धुं जगच्छून्यं, जीवो धर्म विना यथा॥ ८९६ ॥ हरिश्चन्द्रस्ततो दध्यौ, धिग्मां व्यसनपातिनम् । एकत्र श्वपचः क्रुद्धोऽन्यत्र पुत्रव्ययक्लमः ॥ ८९७ ॥ प्रवासोऽरिपुरीवासो, नीचदास्यं सुतव्ययम् । हरिश्चन्द्रोऽखिलं सोढा, देवी त्वेकसुता हता ॥ ८९८ ॥ किञ्च मे वेक्ष्यतो हस्तौ, पुत्रवस्त्राहृतौ कथम् ? । स्वाम्यादेशमकतुं च, नैवीजस्वि मनो मम ॥ ८९९ ॥ अथवा पुत्रमृत्यौ को, मे विचारो यदस्म्यहम् । श्वपचाधीनदेहस्वत्, स यद् ब्रूते करोमि तत् ॥ ९०० ॥ अन्यथा स्यां प्रतिज्ञातभ्रष्टः सत्त्वकलङ्कितः । सत्त्वैकतानवृत्तीनां, नाऽपत्याद्यनुरागिता ॥ ९०१॥ व्यापन्नस्य सुतस्याऽस्य, न गृह्णाम्यम्बरं यदि। निर्वाहयामि नो सन्थां, लज्जते तरणिस्तदा ॥९०२॥ इति सत्त्वानिलोफ़्ताऽपत्यबन्धः स सात्त्विकः। भूत्वा पराङ्मुखोऽशक्तो, ॥७२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy