________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥७
॥
विक्रीतौ दयिता-सुतौ। चाण्डालकर्मकर्ताऽहं, किं मे वा भाव्यतः परम् ? ॥ ८७८॥ इति चिन्तातुरो यावद्, मार्गे याति नृपस्ततः । चाण्डालपतिना प्रोक्तो, व्याघुट्येति व्यजिज्ञपत् ।। ८७९॥ आगतोऽस्ति मृतो बाल, इति वस्त्राऽऽहतौ त्रपा। स प्राह का त्रपाऽस्माकमाचारोऽयं गृहाण तत्॥८८०॥ निवृत्याऽथ हरिर्दथ्यौ, धिग्लोभं यदशाज्जनः। वेत्ति कृत्यमकृत्यं वा, नैव दैवहतो हहा!॥८८१॥ यदाऽऽदिशति मे स्वामी, तत् कर्तव्यं मया खलु । विचारो युज्यते नैव, स्वाम्यादिष्टेऽनुजीविनाम् ॥ ८८२ ॥ स गच्छन्निति शुश्राव, स्वीविलापं तमुच्चकैः । हा! हा! पुत्र! त्वमेको मे, तन्मे मृत्युस्त्वया सह ।। ८८३॥ त्वं ममैवाऽसि कुपितो, रे ! दैव ! यत् पतिर्मम । बभूव कर्मकृन्नीचगेहेऽहमपि तादृशी ॥ ८८४ ॥ परमस्य स्वपुत्रस्य, भरतान्वयशालिनः । आलम्बनेन जीवन्त्या, भविता काऽद्य मे गतिः ? ॥ ८८५ ॥ हरिश्चन्द्रोऽपि विज्ञाय, सुतारां त्वरितो व्रजन् । मुञ्चन्नश्रूण्यथोऽवादीद्, निन्दनात्मानमात्मना ॥ ८८६ ॥ निर्भाग्यशेखरे ! देवि!, वज्रघात: क एष नौ ? । वनिता वीक्ष्य भर्तारं, तारं तारं रुरोद सा॥ ८८७॥ हरिश्चन्द्रोऽप्यरोदीच्च, धैर्य कस्य सुतव्यये ?। रोहिताश्वं हरिर्मोहादाश्लिष्यत् किल पूर्ववत् ।। ८८८ ॥ सुतारां प्राह देवि! त्वं, किं रोदिषि तथा कथम् । वत्सो मां भाषते नैव ?, भवत्या रोषित: किमु ? ॥८८९॥ किं त्वया मोदकं नास्मै, दत्तः किं परिधापितः ? । नाऽद्य रत्नाङ्कितहारं, किं हस्ती नाऽर्पितो
॥७॥