SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥७०॥ आरब्धमित्यूचानेऽस्मिन्, राइ हियाऽधोमुखोऽभवत् ॥ ८६५ ॥ ततो मा भून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति। औषध्या व्रणरोहिण्या,स्वेनालिम्पत् स तद्वपुः॥८६६ ॥ अभूच्च तत्क्षणादेवाऽऽरूढव्रणवपुर्नृपः । ययौ च तापसः स्थाने, स्वेदध्यौ हरिरप्यथ ॥ ८६७॥ नाऽपूर्ण मेऽभवत् किञ्चित्, सर्वस्वं ददतो मुनेः। विद्याधर्या न यत् सिद्धिः, सञ्जाता तत् दुनोति माम् ॥ ८६८ ॥ अरे ! क्व त्वं गतोऽसीति, प्राऽऽहूतः श्वपचेन सः । उपसृत्याह कर्तव्यं, मम स्वामिन् ! समादिश॥ ८६९॥ स प्राहेष मृतः कोऽपि, समायाति ततो भवान् । वस्त्रं गृह्णातु गत्वेति, प्रेरितोऽगाद् नृपस्ततः ॥ ८७० ॥ अशृणोच्छब्दमेकस्याः, करुणा सुतव्ययात् । हा पुत्र! क्व गतोऽसीति, मूर्छन्त्याश्च मुहः स्त्रियाः ।। ८७१॥ अहो! दैवेन निर्मुक्तकरुणेन किलाङ्गजम् । व्यापादयता निर्भाग्याऽभीष्टाऽपत्या त्वसौ हता ॥ ८७२ ॥ अहो ! असार: संसारो, मर्त्यवाचामगोचरः । यदिष्टं देहिनां तत् तु, प्राप्यते न कदाचन ॥ ८७३ ॥ कथं चाऽहं ग्रहीष्यामि बालस्योर्ध्वात् किलाम्बरम् ? । इति मन्दपदः प्रोक्तः, श्वपचेनाशु गच्छ रे!॥ ८७४ ॥ सभयं परिचक्राम्, हरिश्चन्द्रः सुतं स्मरन् । न शुध्येद् यदि देवी मे, तदा वत्सो म्रियेत सः ॥८७५॥ ततः शुश्राव करुणं, रुदर्ती वनितामिति । निर्भाग्यशेखराया मे, मृतो वत्सो हताऽस्मि हा!॥ ८७६ ॥ वत्सो मृत इमां वाचं, प्रतिघ्नन् मङ्गलोक्तिभिः । वामाक्षिस्पन्दनेनाथ, बभूवाऽऽशङ्किमानसः ॥ ८७७ ॥ सर्वस्वं मुनये दत्तं, .. ॥७०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy