SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥६९॥ सोत्साहौ तावुभौ मुदा ॥ ८५२ ॥ अथ गोमायुरटितं, कुण्डानि परितोऽभवत् । विषादात ततो . विद्याधर्म्युचेऽयं निवर्त्यताम् ॥ ८५३ ॥ यद्यस्य घोरफेरत्कारैर्निद्रां त्यक्ष्यति तापसः। होमध्वंसंतदागत्य, स करिष्यति निश्चितम् ॥ ८५४ ॥ सर्वः स नाश्यमानोऽपि, प्रत्युताऽऽगात् समीपग: । जजागार ततश्चाऽऽरादाश्रमे तापसः क्षणात् ॥ ८५५ ॥ किञ्चित् किञ्चित् ततो विद्यामुखं नीचैर्ममज्ज च । खेचर्युवाचाऽपर्याप्तहोमा हा! हा! हतास्म्यहम् ।। ८५६ ॥ सावष्टम्भं हरिः प्राह, मा विषीद गृहाण मे। छित्त्वा शिरोऽपि पर्यन्ताऽहुतिहोमं समापय॥८५७ ॥ चे विद्याधरी होमः, क्रमात् स्यान्ननु नाऽक्रमात् । क्रमंच क्षमते नैष, तापसः क्रोधमावहन्॥८५८॥ अरे! किमिदमारब्धमस्मदाश्रमभूमिषु। इत्याक्रोशन् विवेशोच्चैरुद्धतस्तत्र तापसः॥ ८५९॥ ममज तन्मुखं देव्या, मध्येकुण्डाग्नि सत्वरम् । भीता विद्याधरी साऽथ, क्वाऽप्यगात् सपरिच्छदा॥ ८६०॥ ततः क्रोधात् परिभ्राम्यन्, तापसस्तत्र जग्मिवान् । यत्राऽऽस्ते कृत्तसर्वाङ्ग, शाखाबद्धो हरिः श्वसन् ॥ ८६१॥क्षणेन तापसः किञ्चिदुपलक्ष्याऽऽह विस्मयात् । अरे ! भवान् हरिश्चन्द्रः, सोऽप्याख्यदोमिति स्फुटम् ॥ ८६२ ॥ तमाह तापसः क्रुद्धः, स्वर्ण कुलपतेरदाः ?। नृपः प्राह दिनैः कैश्चित्, प्रभो! पूर्णीभविष्यति ॥ ८६३ ॥ उपलक्षयसि त्वं मे, प्रोक्तस्तेन नृपोऽवदत् । कौटिल्यस्त्वं महीदाने, साक्षी कुलपतेरसि ॥ ८६४ ॥ अरे ! कुलपते: स्वर्णमनापूर्येति किं त्वया। ॥६९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy