SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥६८॥ न्यग्रोधशाखायां, स आत्मानमधोमुखम् । गतमृत्युभयं तस्थौ, रोमाञ्चकवचाञ्चितः ॥ ८४० ॥ ततो । विद्याधरी व्योम्नोऽवतताराऽऽर्द्रचीवरा। अग्निकुण्डनये वह्निमुज्ज्वलं समचिस्करत्॥८४१॥ सज्जीकृत्य च पूजादि, विद्याधर्याह पार्श्वगान् । चित्राङ्गद ! समीक्षस्व, किं लक्षणधरो नरः ॥ ८४२ ॥ चित्राङ्गदोऽप्युपागत्य हरिश्चन्द्राङ्गलक्षणम् । वीक्ष्योचे देवि! मोदस्व, येनाऽयं चक्रिलक्षणः ।। ८४३॥ हुत्वा कुण्डनये मांसमस्य प्रान्ताऽहुतीकृते । शीर्षे विश्ववशीकारविद्याऽऽविर्भविता स्वयम् ॥ ८४४॥ इत्यूचाना मुदोत्थायाऽऽनर्च सर्वाङ्गमप्यमुम्। जूचे च स्मर किञ्चित् त्वं, देवं यत्राऽसि भक्तिमान् ॥८४५।। भवेश्च सात्त्विको येन, विद्या सिध्यति मेऽधुना। यत् त्वन्मांसैर्तुतैः सा स्यात्, प्रीता च वरदा च में ॥८४६ ॥ हरिश्चन्द्रस्ततोऽवादीद, ध्वस्तसंसारवेशसम् । स्मरामि निष्ठितक्लेशं, देवं नाभिसमुद्भवम् ॥८४७ ॥ इदानीं मा विलम्बस्व, होमः स्याद् बहुविध्नभूः । स्वेनैवोत्कृत्य मांसं स्वं, यच्छाम्येष गृहाण तत् ॥ ८४८ ॥ सा प्राह सिद्धिर्मन्त्रस्य, जातैवं त्वं यदुत्तमः । मत्तोऽप्युत्साहवानीदृक्, समवायो हि पुण्यतः ॥ ८४९ ॥ ततः प्रवृत्ता कुण्डेषु, ज्वलज्ज्वालाऽऽकुलेषु सा। हरिश्चन्द्रार्पितं मांसं, प्रक्षेप्तुं मन्त्रपूर्वकम् ॥ ८५० ॥ चे च परितः खड्गहस्तान् विद्याधरोत्तमान् । मा दत्तात्र प्रवेशं भोः !, धापदस्य नरस्य वा ॥ ८५१॥ कियत्यपि कृते होमेऽभूदाविर्देवतामुखम् । मध्यकुण्डात् ततो जातो, ॥६८॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy