________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥६७॥
गता साधुना विद्याधरीति हरिणोदिते । स्नातुं गङ्गां नदी व्योम्ना, जगामेत्यवदद् नरः ॥ ८२७ ॥ ततो दथ्यौ नृपो हर्षाद, गत्वरैश्चेन्ममाङ्गकैः । विद्याधर्या भवेत् सिद्धिर्जीवितं चाऽस्य चारु तत् ॥ ८२८ ॥ तमुवाच हरिश्चन्द्रः, प्रार्थये त्वां किमप्यहो!। स प्राहैवंविधावस्थं, किं त्वं प्रार्थयसेऽत्र माम् ?॥ ८२९॥ राज्ञोचे यदलं दातुं, प्रार्थ्यसे त्वं तदेव हि । स प्राह; तहि याचस्व, यदभीष्टं नरोत्तम ! ॥ ८३०॥ हरिः प्राह; प्रयाहि त्वं, स्वं राज्यं स्वीकुरु क्षणात् । यत् कार्य तत् करिष्यामि, विद्याधर्याः स्ववर्मणा।।८३१॥ पुरुषः प्राह, किं ब्रूते, नात्मनीयमिदं खलु। अधमः कः स्वयं स्वार्थे, परप्राणान् व्ययिष्यते ?॥८३२॥ किञ्च स्वं मे यथाभिष्टं, यथा मे मृत्युभीरुता । यथैषा दयिता मेऽस्ति, तवाऽप्येवं तथाऽस्ति भोः ! ॥८३३॥ तद् याहि त्वमत: स्थानादधुनैष्यति खेचरी। तेनेत्युक्ते हरिश्चन्द्रः, सदैन्यमिव तं जगौ॥८३४॥ मा मा मे प्रार्थनां व्यर्था, कुरुष्व पुरुषोत्तम! । स्वेनाप्यहं महाकष्टान्मर्तुकामोऽस्मि तद् यदि॥ ८३५॥ त्वादृशस्योपकृत्याऽथ, म्रिये स्यां सफलस्तदा। उपकारपरोधर्मः, इत्याख्यान्ति बहुश्रुताः॥ ८३६ ॥ न जातौन जनिष्येते द्वाविमौ पुरुषौ भुवि । अर्थितो यः करोत्येव, यश्च नार्थयते परम् ॥ ७३७ ।। इत्येवं बहुशोऽभ्यर्थ्य, स्वयमुन्मोच्य बन्धनात् । याहीति प्रेषितस्तेन, सजगाम प्रियायुतः॥८३८॥ नूपुरकाणकल्पद्रुपुष्पम्रक्सौरभादिभिः । ज्ञात्वा विद्याधरी आरादायान्ती नृपतिः क्षणात् ॥ ८३९ ॥ बद्ध्वा
॥६७॥