________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥६६॥
पश्याऽग्रतो गत्वा, न्यग्रोधे कारणं मम ॥ ८१५ ॥ हरिर्गत्वा ततोऽपश्यत्, पुमांसं पूर्णलक्षणम् । ऊर्ध्वपादमधोवक्त्रं, बटशाखानियन्त्रितम् ॥ ८१६ ।। सोढाऽहं पुरुषः कान्ते !, त्वं पुनर्भाविनी कथम् ? । तत्प्रलापमिति श्रुत्वा, दथ्यौ राजाऽस्य सा प्रिया॥ ८१७ ॥ अस्योपकारं कुर्वे यद्, दत्ता भूर्मुनये मया । मुनिकन्याधनोपाये, विक्रीतौ दयिता-सुतौ॥८१८॥जीवितस्याऽस्य निर्विण्णः, स्वयमेव पुराऽस्म्यहम् । कृत्वा परार्थ चेद यामि, तत् किं नातं फलं मया? ॥ ८१९ ॥ इति ध्यात्वा हरिः प्रोचे, तमुबद्धं नरं मृदु । अहो ! कस्त्वं कथं चेयमवस्था ते सुदुःसहा ? ॥ ८२० ॥ जाननस्मीति यद् वक्तुमुबद्धेन न शक्यते । परं त्वदाकृति: पुण्या, प्रयुङ्क्ते प्रष्टुमत्र माम् ॥ ८२१ ॥ तदाख्याहि न शक्तोऽस्मि, द्रष्टुं ते दुस्सहां दशाम् । इति तत् प्रणयं दृष्ट्वा, प्रोवाचोबद्धपूरूषः॥ ८२२ ॥ नाहमेतां दशां दीनां, कस्यापि हि निवेदये । तच्छ्रोता 'वेत्ति किं मत्तो, यत् परित्राणमीहते ? ॥ ८२३ ॥ परन्त्वन्यभवस्नेहानुबन्धादथवोत्तमात् । उपकारपरत्वात् ते, पृच्छते' कथयामि भोः !॥ ८२४ ॥ महासेनोऽस्मि काशीन्द्रचन्द्रशेखरनन्दनः । विद्याधर्यास्त्र पल्यहादानीतः प्रियया युतः ॥ ८२५ ॥ किमर्थमिति तेनोक्ते, नरः प्राहात्र सम्प्रति । मन्मांसेन महाहोम, सा करिष्यति खेचरी॥ ८२६ ॥ क्व १. चतुर्थ्यन्तम्।
॥६६॥