________________
श्रीजैन कथासंग्रहः
कथाचतुष्टयी।
॥६५॥
मन्त्रिणा भूपः, सविस्मयमदोऽवदत् ॥ ८०२॥ किं कुर्मः! किमु जानीम: ?, कस्येदं कैतवं महत् ?। सन्दिग्धेऽर्थे किलेतस्मिन् विचारं कुर्महेच किम् ?॥ ८०३ ॥ इति विकल्प-कोपाभ्यां, संश्लिष्टो नृपतिः स्वयम् । व्यसृजन मान्त्रिकं कीरं, पञ्जरेऽथ न्यधापयत्।। ८०४॥ उदतारयदेनां च, रासभाद् वनितां ततः । इति सर्व विसृज्याऽथ, नृपः पल्यमासदत् । ८०५॥ हरिश्चन्द्रोऽपि सूर्यास्ते, चाण्डालस्य नियोगतः। व्रजन् श्मशानं दथ्यौ भोः!, कीदृगु दुर्दैवनाटकम् ?॥ ८०६ ॥ देव्याः कर्मकरीत्वेन, स्थिताया विप्रसद्यनि । राक्षसीवचनं कीरो, देवदत्तं न्यवर्तयत् ।। ८०७ ॥ दैवमेव ततो मन्ये, बलवन्नापरः पुनः । यत् तेन विहिता ह्यापत्, तेनैव हि निवर्त्यते ॥ ८०८ ॥ तमस्यसूचीभेद्येऽपि, प्रविशन्निर्भयो हरिः । ददर्श भीषणाकारं, श्मशानं निशि सर्वतः॥८०९॥ क्वचित् फेरण्डफेत्कारं, क्वचिद् राक्षसडम्बरम् । क्वचिद् विभीषिकोद्योतं, क्वचित् कौशिकवासितम् ॥ ८१०॥ क्वचित् प्रेतपरित्रस्तशवसंस्कारकृत् जनम् । क्वचिच्च डाकिनीमुच्यमानोत्किलकिलावरम् ॥ ८११॥ क्वचित् कापालिकैर्गृह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपूरितनासिकम् ॥ ८१२ ॥ उपर्युपरि पर्यस्तमुण्डतुण्डस्खलद्गमम् । इतस्ततः श्मशानं स, पश्यन् शुश्राव दुर्ध्वनिम् ॥ ८१३ ॥ अहो! आर्तध्वनि: सैषा, मृतपत्याः स्त्रियाः खलु । रुदर्ती वारयाम्येनामित्यगात् तत्पुरो नृपः॥ ८१४॥ उवाच च शुभे! किं ते, कारणं परिदेवने ?। साऽऽह
॥६५॥